SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [पापचिषते] पच् । भृशं पुनः पुनर्वा पचति । 'व्यञ्जनादेरेकस्वराद्० ' ( ३ | ४१९ ) य० । 'सन्-यश्च' (४|१|३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) चलुक् । 'आ-गुणावन्यादेः' (४।१।४८) आ । पापक्तु (चितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'अतः ' ( ४ । ३ । ८२) अलोपः । ' योऽशिति' (४।३।८० ) यलोपः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ||छ|| २८४ ओर्जा - ऽन्तस्था-पवर्गेऽवर्णे ||४|१ | ६० ॥ [ओर्जान्तस्थापवर्गे] उ षष्ठी डस् । ' डित्यदिति' (१।४।२३) ओ । एदोद्भ्यां ङसिङसो र ' (१।४।३५ ) ङस्० २० । जश्च अन्तस्था च (थाश्च) पवर्गश्च = जाऽन्तस्थापवर्गम्, तस्मिन् । [अवर्णे] अवर्ण सप्तमी ङि । [जिजावयिषति] ‘जुं गतौ' (१९९०) जु इति सौत्रो धातुः । जवन्तं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हले ः ' ( ४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । जावयितुमिच्छति । 'तुमर्हादिच्छायां०' ( ३ | ४ | २१) सन्प्र० । 'सन्-यडश्च' (४।१।३) “जु द्विः । ' णौ यत्कृतं कार्यं तत्सर्वं स्थानिवद्भवति' ( वक्षस्कार (२)/ सूत्र (३५)) इति न्यायात् अनेन उ० इ० । इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् । [यियविषति ] 'युक् मिश्रणे' (१०८०) यु । यवितुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'इवृध - भ्रस्जदम्भ-श्रि-यूणु-भर-ज्ञपि सनि-तनि- पति वृद्-दरिद्रः सन: ' ( ४/४/४७ ) इट् । “प्राक् तु स्वरे स्वरविधेरिति 'सन्- यङश्च' (४।१।३) " यु द्विः । अनेन उ० इ० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'नाम्यन्तस्था०' (२।३।१५ ) षत्वम् । [यियावयिषति] यु । युवन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हले ः ' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । यावयितुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१ ) सन्प्र० । 'सन् - यडश्च' (४।१।३) “यु’द्विः । अनेन उ० इ० । इट् । 'नामिनो गुणोऽक्ङिति ' ( ४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [रिरावयिषति] टुक्षु (१०८४) 'रु शब्दे' (१०८५) रु । रुवन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हले:' ( ४।३।५१) वृ० औ । 'ओदौतोऽवाव् ' (१।२।२४) आव्ं । रावयितुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'सन्-यङश्च' (४।११३) “रु "द्विः । अनेन उ० इ० । इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'नाम्यन्तस्था० ' (२|३|१५ ) पत्वम् । [लिलावयिषति] 'लूग्श् छेदने ' (१५१९) लू । लुनन्तं प्रयुङ्क्ते । प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हले:' ( ४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । लावयितुमिच्छति । 'तुमर्हादिच्छायां सन्न० ' ( ३।४।२१) सन्प्र० । 'सन्-यडञ्च' (४।१।३) "लू" द्विः । ह्रस्वः' (४।१।३९) ह्रस्वः । अनेन उ० इ० । इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [पिपविषते ] 'पूङ् पवने' (६००) पू । पवितुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) ‘“पू’द्विः । ‘ह्रस्वः’ (४।१।३९ ) ह्रस्वः । अनेन उ० इ० । 'ऋ-स्मि पूडञ्जशौ-कृ-गृ-दृ-धृ-प्रच्छः' (४।४।४८) इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽबाबू' (१।२।२४ ) अव् । 'नाम्यन्तस्था० ' (२|३|१५ ) पत्वम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy