________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढूंढिका ।
(४।३।६४) ईत् । 'व्युक्तोपान्त्यस्य शिति स्वरे' (४।३।१४) गुणाभावः ।।छ।।
अङ प्रतिस्तब्ध-निस्तब्धे स्तम्भः ।।२।३।४१।। अप्रतिस्तब्धनिस्तब्धे] डश्च प्रतिस्तब्धश्च निस्तब्धश्च = ङप्रतिस्तब्धनिस्तब्धम्, न डप्रतिस्तब्धनिस्तब्धं = अडप्रतिस्तब्धनिस्तब्धम् । 'नञत्' (३।२।१२५) न०-→अ०, तस्मिन् ।
[विष्टभ्नाति] 'स्तम्भू स्तम्भे' (१९८५) स्तम्भ, सूत्रो(सौत्र)धातुः, विपूर्व० । वर्त्तः तिव् । 'स्तम्भू-स्तुम्भू-स्कम्भूस्कुम्भू-स्कोः श्ना च' (३।४।७८) श्नाप्र०→ना । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । अनेन स०→ष० ।
[प्रतिष्टभ्नाति] स्तम्भ, प्रतिपूर्व० । शेषं 'विष्टभ्नाति' वत् ।
[वितष्टम्भ] स्तम्भ, विपूर्व० । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४११४४) अनादिव्यञ्जनलोपः । 'अघोषे शिटः' (४।१।४५) सलोपः । ।
[प्रतितष्टम्भ] स्तम्भ, प्रतिपूर्व० । शेषं 'वितष्टम्भ' वत् ।।
[प्रतिताष्टभ्यते] प्रतिस्तम्भ । भृशं पुनः पुनर्वा प्रतिष्टभ्नाति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यम० । 'सन्-यडश्च' (४191३) द्विवचनम् । 'व्यञ्जनस्याऽनादे०' (४।१।४४) अनादिव्यञ्जनलोपः । 'अघोषे शिटः' (४।१।४५) सलोपः । 'आगुणावन्यादेः' (४।१।४८) आ । वर्त्त० ते । 'कर्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२११११३) अलोपः ।
- [अभितिष्टम्भिषति] अभिस्तम्भ् । अभिस्तम्भितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'सन्यडश्च' (४।१।३) द्विर्वचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'अघोषे शिट:' (४।१।४५) सलोपः । 'सन्यस्य' (४।११५९) इ । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट । 'नाम्यन्तस्था०' (२।३।१५) स०→ष० । वर्त्त० तिव । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[व्यष्टभ्नात्] स्तम्भ, विपूर्व० । ह्यस्तनी दिव्→त् । 'स्तम्भू-स्तुम्भू-स्कम्भू-स्कुम्भू-स्कोः श्ना च' (३।४।६५) श्नाप्र० → ना । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । 'अड् धातोरादि०' (४।४।२९) अडागमः ।
[प्रत्यष्टम्नात् स्तम्भ, प्रतिपूर्व० । ह्यस्तनी दिव् → त् । शेषं 'व्यष्टभ्नात्' वत् ।
[व्यतस्तम्भत्] स्तम्भ, विपूर्व० । विष्टभ्नन्तं प्रायुक्त । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र०→इ । अद्यतनी दि→त् । ‘णि-श्रि-द्रु-सु-कमः कर्तरि ङः' (३।४।५८) डा०→अ । 'आद्योऽश एकस्वरः' (४।१।२) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'अघोषे शिटः' (४।१।४५) सलोपः । ‘णेरनिटि (४।३।८३) णिग्लोपः । ‘अड् धातोरादि०' (४।४।२९) अडागमः ।
[प्रत्यतस्तम्भत्] प्रतिष्टभ्नन्तं प्रायुक्त । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप०→इ । शेषं पूर्वस्येव साध्यः ।
[प्रतिस्तब्धः] स्तम्भ, प्रतिपूर्व० । प्रतिष्टभ्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । 'वेटोऽपतः' (४।४।६२) इड् निषेधः । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । 'अधश्चतुर्थात् त-थोर्धः' (२११७९) त०→ध० । 'तृतीयस्तृतीयचतुर्थे' (१।३।४९) भ० → ब० । प्रथमा सि । [निस्तब्धः] स्तम्भ, निपूर्व० । निष्टभ्यते स्म । शेषं 'प्रतिस्तब्धः' वत् ।।छ।।
अवाच्चाश्रयोर्जाविदूरे ।।२।३।४२ ।। [अवात् अव पञ्चमी डसि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org