________________
अथ द्वितीयाऽध्यायस्य तृतीयः पाद: ॥
[अभिषिषिक्षति] अभि-सिच् । अभिषेक्तुमिच्छति । 'तुमर्हादिच्छा०' (३।४।२१) सन्प० । 'सन्-यङश्च' (४।१३) द्विर्वचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'च-जः क-गम्' (२।१।८६) च०→क० । 'नाम्यन्तस्था०' (२।३।१५) स०→ष० । क-षसंयोगे क्ष । वर्त्त० तिव । कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[अभ्यषिञ्चत्] सिच्, अभिपूर्व० । हास्तनी दिव् → त् । 'तुदादे: शः' (३।४।८१) शप०→अ । 'मुचादि तृफदृफ-गुफ०' (४।४।९९) नोऽन्तः । ‘अड् धातोरादि०' (४।४।२९) अडागमः ।
[अभ्यषिषिक्षत सिच, अभिपूर्व० अभिषेक्तुमैच्छत् । 'तुमर्हादिच्छायां०' (३।४।२१) सनप्र० । 'सन-यडश्च' (४१३) द्विर्वचनम् । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'च-जः क-गम' (२११८६) च०→क० । (२।३।१५) स०→ष० । क षसंयोगे क्ष । ह्यस्तनी दिव→त् । 'कर्तर्यनद्भ्यः०' (३।४।७१) शव् । 'लुगस्यादे०' (२।१।११३) अलोपः । 'अड् धातोरादि०' (४।४।२९) अडागमः ।
[अभिषजति] 'षजं सङ्गे' (१७३) षञ् । 'षः सोऽष्टयै-ष्ठिव०' (२।३।९८) सङ्ग्, अभिपूर्व० । वर्त्त तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । ‘दंश-सञ्जः शवि' (४।२।४९) नलोपः ।
[अभिषषञ्ज] सञ्ज, अभिपूर्व० । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।११) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः ।
[अभिषिषक्षति] सञ्ज, अभिपूर्व० । अभिषक्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । 'सन्-यडश्च' (४।१।३) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'सन्यस्य' (४१५९) इ । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमो०' (१३५०) ग०→क० । 'नाम्यन्तस्था०' (२।३।१५) स०→ष० । कषसंयोगे क्ष । 'ग्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) न०→ङ० ।
[अभ्यषिषङ्क्षत्] सञ्, अभिपूर्व० । अभिषक्तुमैच्छत् । 'तुमर्हा०' (३।४।२१) सन्प्र० । 'सन्-यङश्च' (४।१३) द्विः । 'व्यञ्जन०' (४।१।४४) अनादिव्यञ्जनलोपः । 'सन्यस्य' (४।१५९) इ । 'च-जः क-गम्' (२।११८६) ज०→ग० । 'अघोषे०' (१३५०) ग०-→क० । 'नाम्यन्तस्था०' (२।३।१५) स०→ष० । 'म्नां धु० (११३।३९) न०→ड० । हस्तनी दिव० ।
[प्रतिष्ठापयति स्था, प्रतिपूर्व० । प्रतितिष्ठन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे, णिग्' (३।४।२०) णिगप्र० । 'अर्ति-रीब्ली-ही-क्नूयि-क्ष्माय्यातां पुः' (४।२।२१) पोऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्य:०' (३।४।७१) शव् । 'नामिनो गुणो०' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
__ [प्रतिषेधयति] सिध्, प्रतिपूर्व० । प्रतिषेधन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे०' (३।४।२०) णिग्प्र०→इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः०' (३।४७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[अभिसिध्यति] ‘षियूंच् संराद्धौ' (११८५) षिध् । 'षः सोऽष्ट्यै-ष्ठिव०' (२।३।९८) सिध्, अभिपूर्व० । वर्त० तिव । 'दिवादेः श्यः' (३।४।७२) श्यप्र०→य ।
[प्रतिषेषिधीति 'षिधू गत्याम्' (३२०) षिध् । 'षः सोऽष्ट्यै०' (२।३।९८) सिध, प्रतिपूर्व० । भृशं पुनः पुनर्वा सेधति | 'व्यञ्जनादेरेकस्वरा' (३।४।९) यङ्प्र० । 'सन्-यङश्च' (४११३) द्विवचनम् । 'व्यञ्जनस्या०' (४१११४४) अनादिव्यअनलोपः । 'आ-गुणावन्यादेः' (४११४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यड्लोपः । वर्त्त० तिव् । 'यङ्-तु-रु-स्तोर्बहुलम्'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org