________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुढिका ।
[अधितष्ठौ स्था० अधिपूर्व० । परोक्षा णव् । 'द्विर्धातुः परोक्षा०' (४।१।१) स्था द्विवचनम् । 'अघोषे शिटः' (४।१।४५) सलोपः । 'हूस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) थ०→त० । 'आतो णव औ' (४।२।१२०) औ । ‘ऐदौत् सन्ध्यक्षरैः' (१।२।१२) औ । अनेन स०→ष० ।
[प्रतितष्ठौ] स्था० प्रतिपूर्व० । शेषं 'अधितष्ठौ' वत् ।
- [अध्यष्यत्] अधि-स्था । अद्यतनी दि→त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'पिबैति-दा-भू-स्थः सिचो लुप् परस्मै न चेट्' (४।३।६६) सिज्लोपः । ‘अड् धातोरादि०' (४।४।२९) अडागमः । अनेन स०→ष० ।
[अध्यष्टास्यत्] अधि-स्था । क्रियातिपत्तिः स्यत् । ‘अड् धातोरादि०' (४।४।२९) अडागमः । अनेन स०-→प० ।
[अभिषेणयति] सेना अभिपूर्व० । सेनया अभियातीति । 'णिज् वहुलं नाम्नः कृगादिषु' (३।४।४२) णिच्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । वर्त्त० तिव् । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणो०' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।।
[अभिषिषेणयिषति अभिषेणयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१३) सेनयद्विर्वचनम् । 'व्यञ्जनस्या०' (४।११४४) अनादिव्यञ्जनलोपः । 'हूस्वः' (४।१।३९) ह्रस्वः । 'स्ताद्यशितो०' (४।४।३२) इट । 'नाम्यन्तस्था०' (२।३।१५) ष० पूर्वस्य । अनेन प० तृतीयं (यः) ।
[अभ्यषेणयत्] अभिसेनि । हस्तनी दिव→त् । 'कर्तर्यनद्भ्यः०' (३।४।७१) शव् । 'नामिनो गुणो०' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । 'अड् धातोरादि०' (४।४।२९) अडागमः ।
[अभ्यषिषेणयिषत्] अभिषेणयितुमैच्छत् । 'तुमर्हादिच्छायां० (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'हस्वः' (४।१।३९) ह्रस्वः । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । ह्यस्तनी दिव्→त् । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अड् धातोरादि०' (४।४।२९) अडागमः ।
[प्रतिषिषेधिषति] 'षिधू गत्याम' (३२०) षिध् । 'षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३।९८) सिध्, प्रतिपूर्व० । प्रतिषेधितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यङश्च' (४।१।३) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।११४४) अनादिव्यञ्जनलोपः । ‘स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'नाम्यन्तस्था०' (२।३।१५) प० ।
[प्रत्यषेधत्] सिध्, प्रतिपूर्व० । हास्तनी दिव्→त् । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'अड् धातोरादि०' (४।४।२९) अडागमः ।
[प्रत्यषिषेधिषत् प्रतिषेधितुमैच्छत् । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यश्च' (४।१।३) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ‘स्ताद्यशितो०' (४।४।३२) इट्→इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'नाम्यन्तस्था०' (२।३।१५) प० । ह्यस्तनी दिव→त् । 'कर्त्तर्यनद्भ्यः ' (३।४।७१) शव् । (४।४।२९) अडागमः ।
[अभिषिञ्चति] ‘षिचीत् क्षरणे' (१३२१) षिच् । 'षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३।९८) सिच्, अभिपूर्व० । वर्तः तिव् । 'तुदादेः शः' (३।४।८१) शप्र०→अ । 'मुचादि-तृफ-दृफ-गुफ०' (४।४।९९) नोऽन्तः ।।
सषिक्तं नाम किं तवात्र] अभि(?)(सोसिच्यते स्म । 'क्त-क्तवत' (५1१1१७४) क्तप्र०→त । अभि(?)(स)सेचनं वा । 'क्लीवे क्तः' (५।३।१२३) क्तप्र०→त । 'च-जः क-गम्' (२/१९८६) च०→क० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org