________________
अथ द्वितीयाऽध्यायस्य तृतीयः पादः ।।
९१
[च] च प्रथमा सि । [आश्रयोर्जाविदूरे] आश्रयश्च ऊर्जा च अविदूरं च = आश्रयोर्जाविदूरं, तस्मिन् ।
[दर्गमवष्टभ्नाति] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - 'गम्लं गतौ' (३९६) गम् । दुःखेन गम्यतेऽस्मिन्निति । 'सुग-दुर्गमाधारे' (५1१1१३२) डप्र०→अ । 'डित्यन्त्यस्वरादेः' (२१1११४) अम्लोपः । स्त अवपूर्व० । वर्त० तिव् । 'स्तम्भू-स्तुम्भू-स्कम्भू-स्कुम्भू-स्कोः श्ना च' (३।४।६५) श्नाप्र०→ना । 'नो व्यञ्जस्याऽनुदितः' (४।२।४५) नलोपः । अनेन स०→ष० ।
[दुर्गमवष्टभ्यास्ते] अवस्तम्भनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप्→य । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः ।
[अवतष्टम्भ दुर्गम्] स्तम्भ, अवपूर्व० । परोक्षा णव् । 'द्विर्धातुः परोक्षा०' (४।१।१) स्तम्भ् द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'अघोषे शिटः' (४।१।४५) सलोपः ।
[दुर्गमवाष्टभ्नात्] स्तम्भ, अवपूर्व० । ह्यस्तनी दिव→त् । 'स्तम्भू-स्तुम्भू-स्कम्भू० (३।४।६५) श्नाप्र०→ना । 'नो व्यञ्जनस्याऽनु०' (४२।४५) नलोपः । 'अड् धातोरादि०' (४।४।२९) अडागमः ।
[अहो ! वृषलस्यावष्टम्भः] अवस्तम्भनम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ ।
[अवष्टब्धो रिपुः शुरेण] अवष्टभ्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । 'अधश्चतुर्थात् तथोर्धः । (२११७९) त०-→ध० । 'तृतीयस्तृतीय-चतुर्थे' (१३।४९) भ० ब० ।
[अवष्टब्धा शरत्] 55अवष्टभ्यते । क्तप्र० । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । 'आत्' (२।४।१८) आप् ।
[अवष्टब्धा(धे) सेना(ने)] अवष्टभ्नीत(:) स्म । +क्तप्र० । 'आत्' (२।४।१८) आप् । औ । 'औता' (१।४।२०) ए। [प्रस्तब्धः] प्रष्टभ्यते स्म । क्तप्र० → त । [उपष्टम्भः] उपष्टम्भनम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र०→अ । [उपष्टम्भकः] उपष्टभ्नातीति । णक-तृचौ (५।१।४८) णकप्र०→अक । [उपष्टब्धः] उपष्टभ्यते स्म । क्तप०→त । [अवस्तब्धो वृषलः शीतेन] अवस्तब्धो वृषलः - सङ्कुचित इत्यर्थः ।
[अवातस्तम्भत्] अवाष्टम्भीत् कश्चित् तं अवष्टभ्नन्तमन्यः प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प०→इ। अद्यतनी दि→त् । ‘णि-श्रि-द्रु-सु कमः कर्तरि ङः' (३।४।५८) डप्र०→अ । 'द्विर्धातुः परोक्षाडे०' (४।१।१) स्तम्भ द्विर्वचनम् । 'व्यञ्जनस्याऽना०' (४।१।४४) अनादिव्यञ्जनलोपः । 'अघोषे शिट:' (४।१।४५) सलोपः । ‘णेरनिटि' (४।३।८३) णिगलोपः ॥छ।।
व्यवात् स्वनोऽशने ।।२।३।४३।।
[व्यवात् विश्व अवश्च = व्यवम्, तस्मात् ।
P卐 ऊर्जश्च । P卐म अवष्टभ्नाति स्म । 'गत्यर्था-ऽकर्मक०' (५।१।११) क्तप्र० । . P + 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org