________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[ अशने] अश्यतेऽशनम् । 'भुजि - पत्यादिभ्यः कर्मा-ऽपादाने' (५।३।१२८) अनट्प्र० अन, तस्मिन् ।
[ विष्वणति ] स्तन (३२३) धन ( ३२४ ) - ध्वन (३२५) चन (३२६) - 'स्वन शब्दे' (३२७), स्वन्, विपूर्व० ।
-
वर्त्त तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शवप्र० ।
९२
[अवष्वणति ] स्वन्, अवपूर्व० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव्प्र० ।
[विषष्वाण ] स्वन्, विपूर्व० । परोक्षा णव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विर्वचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः ।
-
[अवषष्वाण] स्वन्, अवपूर्व० । परोक्षा णव् । शेषं 'विषष्वाण' वत् ।
[विषिष्वणिषति] स्तन्, विपूर्व० । विष्वणितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः ' ( ३।४।२१) सन्प्र० । ' सन्यश्च' (४।१।३) द्विर्वचनम् । 'व्यञ्जनस्याऽना०' (४।१।४४) अनादिव्यञ्जनलोपः । 'सन्यस्य' ( ४।१।५९) इ । 'स्ताद्यशितो० ' (४।४।३२ ) इट् इ ।
[अवषिष्वणिषति ] स्वन्, अवपूर्व० । अवष्वणितुमिच्छति । शेषं 'विषिष्वणिषति' वत् ।
[ व्यषिष्वणत्] स्वन शब्दे (३२७) स्वन्, विपूर्व० । विष्वणन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० → इ । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः । अद्यतनी दित् । 'णि श्रि-दु-स्रु० ' ( ३।४।५८) डप्र० अ । द्विर्धातुः परोक्षाङे०' (४।१।१) द्विर्वचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'असमानलोपे सन्वल्लघुनि ङे' (४।१।६३) इ । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) ह्रस्वः । ' णेरनिटि ' ( ४ | ३ |८३) णिग्लोपः । 'अड् धातो०' (४।४।२९) अट् ।
[अवाषिष्वणत्] स्वन्, अवपूर्व० । अवष्वणन्तं प्रायुक्त । शेषं 'व्यषिष्वणत्' वत् ।
[अत्यसिस्वनत्] स्वन्, अतिपूर्व० । अतिस्वनन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । ञ्णिति' ( ४ | ३ |५०) उपान्त्यवृद्धिः । अद्यतनी दि - त् । 'णि श्रि-दु-सु-कमः कर्त्तरि ङः ' ( ३।४।५८) डप्र० । द्विर्धातुः परोक्षा - डे० ' (४।१।१) द्विर्वचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'असमानलोपे० ' ( ४।१।६३) इ । 'उपान्त्यस्याऽसमानलोपि शास्वृदितो ङे' (४।२।३५) ह्रस्वः । ' णेरनिटि' ( ४ | ३ |८३) णिग्लोपः । । छ ||
सदोऽप्रतेः परोक्षायां त्वादेः || २ | ३ | ४४ ||
[ अप्रतेः ] न प्रति
अप्रति, तस्मात् ।
[निषीदति ] 'षद् विशरण- गत्यवसादनेषु' (९६६) षद् । 'षः सोऽष्ट्यै- ष्ठिव-ष्वष्कः' (२।३।९८) सद्, निपूर्व० । वर्त्त तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'श्रौति - कृवु-धिवु०' (४।२।१०८) सीद् । अनेन स० ष० ।
=
[निषाषद्यते] सद्, निपूर्व० । भृशं पुनः पुनर्वा निषीदति । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) यड्प्र०य । 'सन्-यडश्च' (४।१।३) द्विर्वचनम् । 'व्यञ्जनस्याऽनादे० ' ( ४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त्तते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । अनेन स० ष० ।
[विषाषद्यते] सद्, विपूर्व० । भृशं पुनः पुनर्वा विषीदति । शेषं 'निषाषद्यते' वत् ।
Jain Education International
[निषिषत्सति ] सद्, निपूर्व० । निषत्तुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । सन्- यश्च' (४।१।३) द्विर्वचनम् । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ' सन्यस्य' ( ४|११५९) इ । 'अघोषे प्रथमोऽशिटः ' (१।३।५०) द० त० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् ।
श० म० न्यासानुसन्धाने
गर्हितं निषीदति । 'गृ-लुप०' ( ३।४।१२ ) य० ।
For Private Personal Use Only
www.jainelibrary.org