________________
अथ द्वितीयाऽध्यायस्य तृतीयः पाद: ।।
[सिषेव 'पिवूच उतौ' (११६४) षिव् । 'षः सोऽष्टयै०' (२।३।९८) सिव । परोक्षा णव । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
[सुष्वाप] 'जिष्वपंक् शये' (१०८८) ष्वप् । 'षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३।९८) स्वप् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विर्वचनम् । 'भू-स्वपोरदुतौ' (४।१।७०) उ० । 'ज्णिति' (४।३।५०) उपान्त्यवृद्धिः ।
[सुषुप्सति] स्वप् । स्वपितु(पु)मिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प० । ‘स्वपेर्यङ्-डे च' (४।१।८०) य्वृत् व०-उ० । ‘सन्-यडश्च' (४।१।३) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः ।
तिष्ठासति] 'ष्ठां गतिनिवृत्तौ' (५ ) ष्ठा । 'षः सोऽष्टयै०' (२।३।९८) स्था । 'निमित्ताऽभावे०' (न्यायसंग्रहः १२९) स्था । स्थातुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४१३) द्विवचनम् । 'अघोषे शिटः' (४।१।४५) सलोपः । 'हूस्वः' (४।१।३९) ह्रस्वः । 'सन्यस्य' (४१५९) इ । 'द्वितीय०' (४।११४२) थि०→ति० ।
[व्यतिसुषुपिषे] 'जिष्वपंक् शये' (१०८८) ष्वप् । 'षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३।९८) स्वप, व्यतिपूर्व० । परोक्षा से । 'भू-स्वपोरदुतो' (४।१।७०) व०→उ० । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विर्वचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् | नाम्यन्तस्था० (२।३।१५) स०→ष० ।
[प्रतीषिषति] 'इंडक् अध्ययने' (११०४) इ, प्रतिपूर्व० । प्रत्येतुमिच्छति । तुमर्हादिच्छायां० (३।४।२१) सन्प्र० । प्रतीषितुमिच्छति । सन्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट । 'अतः' (४।३८२) अलोपः । वर्त्त० तिव । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[अधीषिषति] 'इंड्क् अध्ययने' (११०४) इ, अधिपूर्व० । अध्येतुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । अधीषितुमिच्छति । सन्प्र० । 'स्ताद्यशि०' (४।४।३२) इट । 'अतः' (४।३।८२) अलोपः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२११११३) अलोपः ।।
[सोषुपिषते] स्वप् । भृशं पुनः पुनर्वा स्वपिति । 'व्यञ्जनादेरेकस्वराद् भृशा-ऽऽभीक्ष्ण्ये या वा' (३।४।९) यड्य० । 'स्वपेर्यङ् डे च' (४।।८०) वृत् व०→उ० । ‘सन्-यडश्च' (४।१३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यअनलोपः । 'आ-गुणावन्यादेः' (४|११४८) गु० सो । 'बहुलं लुप' (३।४।१४) यड्लोपः । सोषुपितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । वर्त्त० ते ।
[सेषिविषते] ‘षिवूच् उतौ' (११६४) षिव् । 'षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३।९८) सिव् । भृशं पुनः पुनर्वा सीव्यति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यङ्म० । 'सन्-यश्च' (४।१।३) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) गु० सि०→से० । 'बहुलं लुप्' (३।४।१४) यड्लोपः । सेषिवितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । वर्त० ते ॥छ।।
सञ्जेर्वा ||२३३८|| इकारान्तनिर्देशादिति - अत एवात्र प्रकरणे इकार उच्चारणार्थो न क्वचिदपि विहितः ।
卐 श० म० न्या० सं० -
प्रतीषिषतीति - अत्र 'इंण्क् गतौ' इति लिख्यते, तस्य च ज्ञानार्थत्वात् 'सनीडश्च' (४।४।२५) इति न गम्वादेशः । 'इंक स्मरणे', 'इंक अध्ययने' इत्यनयोस्तु अज्ञान इति विशेषणं नासम्भवात्, अतोऽनयोगम्वादेशः प्राप्नोतीत्येतौ न लिख्येते, 'इंण्क् गतौ' इत्यस्याप्यज्ञानार्थत्वविवक्षायामादेशप्राप्तिः । 'ई' इत्यस्य तु ज्ञानार्थत्वविवक्षायामविवक्षायामपि नादेशः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org