SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [सिषञ्जयिषति, सिसञ्जयिषति] 'षयं सङ्गे' (१७३) षड् । ' षः सोऽष्टयै ० ' (२।३।९८ ) स । सजन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० इ । सञ्जयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । ‘सन्-यडश्च’ (४।१।३) द्विर्वचनम् । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'सन्यस्य' (४।१।५९) इ । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । ‘नामिनो गुणोऽक्डिति' ( ४ | ३ |१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् ।।छ।। उपसर्गात् सुग्-सुव-सो-स्तु-स्तुभोऽट्यप्यद्वित्वे ।।२।३।३९॥ ८४ [उपसर्गात् ] उपसर्ग पञ्चमी इसि । [सुग्सुवसोस्तुस्तुभः ] सुग् च सुवश्च सोश्च स्तुश्च स्तुभ् च = सुग्सुवसोस्तुस्तुभ्, तस्य । [अद्वित्वे ] न द्वित्वं अद्वित्वम् । ‘नञत्’ (३।२।१२५) न० अ० तस्मिन् । 1 = [अभिषुणोति ] 'पुंग्ट् अभिषवे' (१२८६) षु । ' षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३।९८) सु, अभिपूर्व० । वर्त्त० तिव् | 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० नु । ' उ श्नो:' ( ४।३।२) गु० ओ । 'रष्टवर्णान्नो ण० ' (२।३।६३) न०-० । [ परिणति ] परि-सु । वर्त्त० तिव् । शेषं 'अभिषुणोति' वत् । [ अभिषावयति ] अभिपुण्वन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । 'नामिनोऽकलि-हले ः ' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२३) आव् । [परिषावयति ] परिषुण्वन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । अग्रे 'अभिषावयति' । [अभ्यषुणोत्] ‘पुंग्ट् अभिषवे ' (१२८६ ) षु । ' षः सोऽष्टयै ० ' (२।३।९८) सु, अभिपूर्व० । ह्यस्तनी दिव्त् । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० नु । ' उ-श्नोः' (४।३।२) गु० ओ । 'रष्टवर्णान्नो ण० ' (२।३।६३) न०० । 'अड् धातोरादि० ' ( ४।४।२९) अडागमः । [पर्यषुणोत्] 'पुंग्ट् अभिषवे ' (१२८६ ) षु । ' षः सोऽष्ट्यै० ' (२।३।९८) सु, परिपूर्व० । ह्यस्तनी दिव्→त् । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० नु । ' उश्नोः' (४।३।२) गु० ओ । 'रपृवर्णान्नो ण० ' (२।३।६३) न०० । 'अड् धातोरादि०' (४।४।२९ ) अडागमः । [अभिसौति] ‘पुंक् प्रसवैश्वर्ययोः ' (१०७८) षु । 'पः सोऽष्टयै ष्ठिव-ष्वष्कः' (२।३।९८) सु, अभिपूर्व० । वर्त्त तिव् । ‘उत और्विति व्यञ्जनेऽद्वेः' (४।३।५९ ) औ = सौ । [अभिसवति] 'सुं प्रसवैश्वर्ययोः ' ( १७ ) सु । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्ति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [अभिषुवति] 'षूत् प्रेरणे' (१३३२) पू । षः सोऽष्टयै ० ' (२।३।९८) सू, अभिपूर्व० । वर्त्त० तिव् । 'तुदादेः शः ' ( ३।४।८१ ) शप्र० अ । 'धातोरिवर्णावर्णस्येयुव स्वरे प्रत्यये' (२।१।५०) उव् । [ परिषुवति ] 'पूत् प्रेरणे' (१३३२ ) षू । 'षः सोऽष्टयै ० ' (२।३।९८) सू, परिपूर्व० । शेषं 'अभिषुवति' वत् । [ अभ्यषुवत् ] 'पूत् प्रेरणे' (१३३२) षू । 'षः सोऽष्टयै ० ' (२।३।९८) सू, अभिपूर्व० । ह्यस्तनी दिव्त् । ' तुदादेः श:' ( ३।४।८१) शप्र ० अ । 'धातोरिवर्णोवर्णस्येयुव्०' (२।१।५०) उव् । 'अड् धातोरादि० ' ( ४ । ४ । २९) अडागमः । [पर्यषुवत् ] सू, परिपूर्व० । ह्यस्तनी दिवत् । शेषं 'अभ्यषुवत्' वत् । [ अभिसूते ] 'पूौक् प्राणिगर्भविमोचने' (११०७) पू । 'पः सोऽष्टयै० ' (२।३।९८) सू, अभिपूर्व० । वर्त्त० ते । [ अभिसूयते ] ' षूङौच् प्राणिप्रसवे' (११४२) पू । षः सोऽष्टये० ' (२।३।९८) सू, अभिपूर्व० । वर्त्त० ते । 'दिवादेः Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy