SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ८० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [पयस्त्वम् पयसो भावः । 'भावे त्व-तल' (७।१।५५) त्वप्र० । 'सो रुः' (२।११७२) र० । 'च-ट-ते सद्वितीये' (१३७) र० → स० । [तेजस्तरम्] द्वयोर्मध्ये प्रकृष्टं तेजः = तेजस्तरम् । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प० । 'सो रुः' (२।१।७२) र० । 'च-ट-ते सद्वितीये' (११३७) र० → स० । [तेजस्तमम्] प्रकृष्टं तेजस्तेजस्तमम् । 'प्रकृष्टे तमप्' (७।३।५) तमप्प० । ‘सो रुः' (२।१।७२) र० । 'च-ट-ते सद्वितीये' (१।३।७) र० → स० । [भिन्द्युस्तराम 'भिदंपी विदारणे' (१४७७) भिद् । सप्तमी युस् । 'रुधां स्वराच्श्नो नलुक च' (३।४।८२) श्नप्र० →न । 'श्ना-ऽस्त्योर्मुक्' (४।२।९०) अलोपः । तराम् प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । [सर्पिस्तरः] सर्पिस् 'तू प्लवन-तरणयोः' (२७) तृ । सर्पिषंस्तरणम् । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अलप० → अ । 'नामिनो गुणो०' (४।३।१) गु० अर् । [सर्पिस्तमः] प्रकृष्टं सर्पिः । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० → तम । सर्पिषस्तमनं = सर्पिस्तमः । सर्पिस्साद् भवति] सर्पिस् अग्रे भवति । सर्पिषः आयत्तं भवति । 'व्याप्तौ स्सात्' (७।२।१३०) सात्प० । 'सो रुः' (२११७२) र० । 'श-ष-से श-ष-सं वा' (१९३६) र० → स० छ।। निसस्तपेऽनासेवायाम् ।।२।३।३५।। [निसस्तपेऽनासेवायाम निस् षष्ठी डस् । तप सप्तमी ङि । न आसेवा = अनासेवा । 'अन् स्वरे' (३।२।१२९) अन्, तस्याम् । [निष्टपति सुवर्णम्] निस् 'तपं सन्तापे' (३३३) तप् । वर्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । अनेन स० → ष० । "निष्टतं रक्षो निष्टमा अरातयः"] निस्तप्यते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । प्रथमा जस् । [निरतपत्] निस्-तप् । ह्यस्तनी दिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अड् धातोरादि०' (४।४।२९) अडागमः । [निस्तातप्ति, निस्तातपीति निस्-तप् | पुनरर्थे आसेवा स्यात्, अत्र भृशं निस्तपतीति वाक्यं कार्यम्, 'व्यञ्जनादेरेकस्वरा' (३।४।९) यङ्म० । 'सन्-यडश्च' (४।१।३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' (३।४।१४) यङ्लोपः । 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत्→ई । वर्त० तिव् ॥छ।। घस-वसः ।।२।३।३६।। [घस्वसः] घस् च वस् च = घस्वस्, तस्य । [जक्षतुः] 'घस्लूं अदने' (५४४) घस् । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) घ० → ग० । 'ग-होर्जः' (४।१।४०) ग०→ज० । 'गम-हन-जन-खन-घसः स्वरेऽनङि डिति लुक' (४।२।४४) अलोपः । 'अघोषे प्रथमोऽशिटः' (११३५०) घ०→क० । अनेन स०→ष० । क-षसंयोगे क्ष । [जक्षुः] 'घस्लूं अदने' (५४४ ) घस् | परोक्षा उस् । शेषं 'जक्षतुः' वत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy