SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । नैमित्तिकस्याऽप्यभावः' (न्यायसं० ११२९) स्था । प्रकर्षणाऽग्रे तिष्ठतीति । 'स्था-पा-ना-त्रः कः' (५।१।१४२) कप्र० → अ । ‘इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । अनेन स० → ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) थ० → ठ० ॥छ।। भीरुष्ठानादयः ।।२।३।३३।। [भीरुष्टानादयः] भीरुष्ठानमादिर्येषां ते । [भीरुष्ठानम्] भीरूणां स्थानम् । [अङ्गुलिषगः] अङ्गुलीनां सङ्गः । [अगुलिषगा यवागूः] । अगुलीनां सङ्गो विद्यते यस्याः सा । [सव्येष्ठा] सव्ये तिष्ठतीति । 'सव्यात् स्थः' (उणा० ८५५) डिद् ऋप्र० । 'तत्पुरुषे कृति' (३।२।२०) सप्तम्यलुप् । प्रथमा सि । सव्येष्ठ = सारथिः । [परमेष्ठी] परमे पदे तिष्ठतीति । 'परमात् कित्' (उणा० ९२५) किद् इन्प्र० । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । गणपाठसामर्थ्यादलुप् । गौरिषक्थम] गौर्या इव सक्थिनी यस्य । 'सक्थ्यक्ष्णः स्वाङ्गे (७।३।१२६) ट: । 'ड्यापो बहुलं नाम्नि' (२।४।९९) [प्रतिष्णिका] प्रतिस्नात्यस्यामिति । 'स्थाऽऽदिभ्यः कः' (५।३।८२) कप्र० → अ । यद्वा कुत्सिता प्रतिस्ना = प्रतिष्णिका । 'कुत्सिता-ऽल्पा-ऽज्ञाते' (७।३।३३) कपप्र० क । 'आत' (२।४।१८) आप । अस्याऽर (२।४।१११) इ। [नौषेचिका] मनावः सेचिकाम् । [दुन्दुभिषेवणः] +दुन्दुभेः सेवनां । 'गोश्चान्ते०' (२।४।९६) इस्वः ।।छ।। ह्रस्वान्नाम्नस्ति ।।२।३।३४।। [सर्पिष्टा] सर्पिस् । सर्पिषो भावः । भावे त्व-तल्' (७।१।५५) तलप्र० →त० । अनेन स० → ष० । 'तवर्गस्य श्ववर्ग०' (१३।६०) त० → ट० । 'आत्' (२।४।१८) आप् । [यजुष्टा] यजुस् । यजुषो भावः । 'भावे त्व-तल' (७।११५५) तलप्र० →त० । अनेन स० →ष० । 'तवर्गस्य श्ववर्ग०' (१।३।६०) त० → ट० । 'आत्' (२।४।१८) आप् । [सर्पिष्ट्वम्] सर्पिषो भावः । 'भावे त्व-तल्' (७।१।५५) त्वप्र० । अनेन स० → प० । 'तवर्गस्य श्चवर्ग०' (११३१६०) त० → ट० । _ [यजुष्ट्वम्] यजुषो भावः । 'भावे त्व-तल्' (७।१।५५) त्वप्र० । अनेन स० → प० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ८० । 卐 श० म० न्यासानुसन्धाने - प्रतिष्ठते प्रष्ठः । 'उपसर्गादातो डोऽश्यः' (५१५६) डप्र०, न तु 'स्था- पा०' (५।१११४२) इति कः, तस्य नामपूवाद्धातोर्विहितत्वात् ।। 卐फ मध्यमवृत्तौ - नावं सिञ्चतीति । + मध्यमवृत्तौ - दुन्दुभिं सेवते । Jain Education International For Private & Personal Use Only www. www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy