SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य तृतीयः पादः ॥ ७७ अङ्गौ तिष्ठतीति । [मञ्जिष्ठः] 'मञ्ज सौन्दर्ये च' (सौत्रधातुः २१) मञ् । पदि-पठिपचि-स्थलि-हलि-कलि-बलि-वलि-वल्लि-पल्लि-कटिचटि-वटि-बधि-गाध्यर्चि-वन्दि-नन्धवि-वशि-वाशि-काशि-छर्दि-तन्त्रि-मन्त्रि-खण्डि-मण्डि-चण्डि-यत्यञ्जि-मस्यसि-वनि-ध्वनि-सनि-गमितमि-ग्रन्थि-श्रन्थि-जनि-मण्यादिभ्यः (उणा० ६०७) इप्र० । मञ्जौ तिष्ठतीति । [पुञ्जिष्ठः] 'पूङ् पवने' (६००) पू । 'पुवः पुन् च' (उणा० १२८) जप० → ज० - पुन् आदेशः । पुञ्ज इवाऽऽचरति । 'कर्तुः क्विप०' (३।४।२५) क्विपप्र० । पुञ्जतीति । 'स्वरेभ्य इः' (उणा०६०६) इप्र० । पुऔ तिष्ठतीति । [बर्हिष्ठः] वर्हिषि तिष्ठतीति । 'व्यत्यये लुग् वा' (१।३।५६) रलोपः । [परमेष्ठः] परमे = परमपदे तिष्ठतीति । [दिविष्टः] दिवि = स्वर्गे तिष्ठतीति । 'स्था-पा-स्ना-त्रः कः' (५1१1१४२) कप्र० । 'इडेत्-पुसि चाऽऽतो लुक' (४।३।९४) आलोपः । अनेन स० → प० । 'तवर्गस्य श्ववर्ग०' (१३।६०) थ०→ठ छ।। निर्दुस्सोः सेध-सन्धि-साम्नाम् ।।२।३।३१।। [निर्दुस्सोः] निश्च दुश्च सुश्च = निर्दुस्सुः, तस्मात् । [सेधसन्धिसाम्नाम्] सेधश्च सन्धिश्च साम च = सेधसन्धिसामानि, तेषाम् । [निःषेधः] ‘षिधू गत्याम्' (३२०) षिध् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सिध् । सेधनं = सेधः । 'भावाऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'लघोरुपान्त्यस्य' (४३।४) गु० ए । (१) निर्गतः सेधात् । 'प्रात्यव-परि-निरादयो गत-क्रान्त-क्रुष्ट-ग्लान-क्रान्ताद्यर्थाः प्रथमाद्यन्तैः' (३।१।४७) समासः । [दुःषेधः] दुष्टः सेधः । 'दुनिन्दा-कृच्छ्रे' (३।१।४३) समासः । [सुषेधः] शोभनः सेधः । 'सुः पूजायाम्' (३।१।४४) समासः । [निःषन्धिः] (२) निर्गतः सन्धिः । [दुःषन्धिः] दुष्टः सन्धिः ।। [सुषन्धिः] शोभनः सन्धिः । [निःषाम] (३) निर्गतं साम । [दुःषाम] दुष्टं साम । [सुषाम] शोभनं साम । अनेन सर्वत्र स०→ष० ॥छ।। प्रष्ठोऽग्रगे ॥२।३।३२।। [प्रष्टोऽग्रगे] प्रात् स्थः = प्रष्ठः । अग्रे गच्छतीति । 'नाम्नो गमः खड्-डौ च विहायसस्तु विहः' (५1१1१३१) डप्र० । [प्रष्टोऽग्रगामी प्र 'ष्ठं गतिनिवृत्तौ' (५ ) ष्ठा । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताऽभावे P (१) निश्चितः सेधः । P (२) निश्चितः सन्धिः । P (३) निश्चितं साम । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy