SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । कपेोत्रे ।।२।३।२९।। [कपिष्ठलिः पुत्रः] 5 कपिती (रिति) स्थलं यस्याऽसौ । कपिष्ठलस्याऽपत्यम् । अत इञ्' (६।१।३१) इअप्र०→इ। 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । गोत्रमिह लौकिकं गृह्यते । लोक । लोकेन ज्ञातम् । 'लोक-सर्वलोकाज्ज्ञाते' (६।४।१५७) इकणप० →इक । 'वृद्धि: स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।।छ।। गो-ऽम्बा-ऽऽम्ब-सव्या-उप-द्वि-त्रि-भूम्यग्नि-शेकु-शकु-क्वगु-मञ्जि-पुञ्जि-बर्हिः-परमे-दिवेः स्थस्य ।।२।३।३०।। [गोऽम्बाऽऽम्बसव्याऽपद्वित्रिभूम्यग्निशेकुशकुक्वङ्गुमञ्जिपुञ्जिबर्हिःपरमेदिवेः] गोश्च अम्वा च आम्वश्च सव्यश्च अपश्च द्विश्च त्रिश्च भूमिश्च अग्निश्च शेकुश्च शड्कुश्च कुश्च अगुश्च मञ्जिश्च पुञ्जिश्च बर्हिश्च परम(मे)श्च दिविश्च = गोऽम्बाऽऽम्बसव्याऽपद्वित्रिभूम्यग्निशेकुशकुक्वगुमञ्जिपुञ्जिबर्हिःपरमेदिवि, तस्मात् । [स्थस्य स्थ षष्ठी डस् । [गोष्ठम् गो स्था (२।२।२०) सूत्रवत् । + गावस्तिष्टन्तीति । 'स्थाऽऽदिभ्यः कः' (५।३।८२) कप्र० → अ । ‘इडेत् – पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । [अम्बष्ठः] अम्बायां तिष्ठतीति । 'स्था पा-स्ना-त्रः कः' (५1१1१४२) कप्र० → अ । 'ड्यापो बहुलं नाम्नि' (२१४९९) हूस्वः । 'इडेत्० (४।३।९४) आलोपः ।। [आम्बष्ठः] अम्बायां भवः = आम्बः । 'भवे' (६।३।१२३) अण्प्र० । आम्बे - अपह्नवे तिष्ठतीति । [सव्यष्टः] 'घूत् प्रेरणे' (१३३२) षू । 'षः सोऽष्टयै-ष्टिव-ष्वष्कः' (२।३।९८) सू । सुवति दक्षिणभावम् । 'स्थाछा-मा-सा-सू-मन्यनि-कनि-सि-पलि-कलि-शलि-शकीर्ण्य-सहि-बन्धिभ्यो यः' (उणा० ३५७) यप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'य्यक्ये' (१।२।२५) अव् । सव्ये तिष्ठतीति । [अपष्टः] अपतिष्ठतीति । 'उपसर्गादातो डोऽश्यः' (५१५६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२११।११४) आलोपः । [द्विष्ठः] द्वयोः तिष्ठतीति । [त्रिष्ठः] त्रिषु तिष्ठतीति । [भूमिष्टः] भूमौ तिष्टतीति । [अग्निष्ठः] अग्नौ तिष्ठतीति । [शेकुष्ठः] 'शीड़क स्वप्ने' (११०५) शी । शेते इति । 'कै-शी-शमि-रमिभ्यः कुः' (उणा० ७४९) कुप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ई० → ए० । शेकौ तिष्ठतीति । [शङ्कुष्ठः] 'शमू उपशमे' (१२३०) शम् । शाम्यतीति । 'कै-शी-शमि-रमिभ्यः कुः' (उणा० ७४९) कुप्र० । शड्को तिष्ठतीति । [कुष्ठः] कौ = पृथिव्यां तिष्ठतीति । [अङ्गुष्ठः] 'अम गतौ' (३९२) अम् । अमति = गच्छति अंगभावः । 'फलि-वल्यमेणुः' (उणा० ७५८) गुप० । Pऊ करिव स्थलं यस्याऽसौ । P + गावस्तिष्ठन्त्यस्मिन्निति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy