SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य तृतीयः पादः ।। [विष्वक्सेनः] विष्वक सेनायां यस्याऽसौ । 'गोश्चान्ते०' (२।४।९६) हूस्वः । [शतभिषक्सेनः] शतभिषक सेनायां यस्याऽसौ । 'गोश्चान्ते०' (२।४।९६) हूस्वः । [सर्वसेनः] सर्वा सेना यस्य । 'गोश्चान्ते०' (२१४१९६) ह्रस्वः । [महासेनः] महत-सेना । महती सेना यस्याऽसौ । 'जातीयैकार्थेऽच्चेः' (३१२७०) डाप्र० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः ।।छ।। भादितो वा ।।२।३।२७।। [भात्] भ पञ्चमी डसि । [इतर] इत् पञ्चमी डसि । [वा] वा प्रथमा सि । [रोहिणिषेणः, रोहिणिसेनः] रोहिणी सेनायां यस्याऽसौ । ‘ड्यापो बहुलं नाम्नि' (२।४।९९) ह्रस्वः । 'गोश्चान्ते०' (२।४।९६) हूस्वः । [रेवतिषणः, रेवतिसेनः] रेवती सेनायां यस्याऽसौ । ‘ड्यापो बहुलं नाम्नि' (२।४।९९) ह्रस्वः । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः । [भरणिषणः, भरणिसेनः] भरणी सेनायां यस्याऽसौ । 'ड्यापो बहुलं नाम्नि' (२।४।९९) ह्रस्वः । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः । [पुनर्वसुषेणः] पुनर्वसू सेनायां यस्याऽसौ । ‘परतः स्त्री पुम्वत् स्त्र्येकार्थेऽनूङ्' (३।२।४९) पुंवद्भावः । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः । ‘एत्यकः' (२।३।२६) स० → ष० । [शतभिषक्सेनः] शतभिषक् सेनायां यस्याऽसौ ।।छ।। वि-कु-शमि-परेः स्थलस्य ।।२।३।२८।। [विकुशमिपरेः] विश्व कुश्च शमिश्च परिश्च = विकुशमिपरि, तस्मात् । [स्थलस्य] स्थल षष्ठी डस् । [विष्टलम] विगतं वीनां वा पक्षिणां स्थलं = विष्ठलम् । [कुष्ठलम्] कुत्सितं कोः पृथिव्या वा स्थलं = कुष्ठलम् । [शमिष्ठलम्] शमीनां स्थलं = शमिष्टलम् । ‘डयापो बहुलं नाम्नि' (२।४।९९) ह्रस्वः । [परिष्टलम्] परिगतं स्थलं = परिष्ठलम् । [भूमिस्थलम्] भूम्याः भूमेः वा स्थलम् ।।छ।। P卐 विषु अञ्चतीति क्विप् । 'अशोऽनर्चायाम्' (४।२।४६) नलोपः । 'अञ्चः' (२।४।३) डीः । 'अच्च् प्राग् दीर्घश्च' (२११०४) अकारलोपः - पूर्वस्य दीर्घत्वम् । विषूची सेना यस्य । 'गोश्चान्ते०' (२।४।९६) हूस्वः । 'परतः स्त्री पुम्वत् स्त्र्ये कार्थेऽनङ् (३।२।४९) पुंवद्धावः । 'च-जः क-गम्' (२।११८६) च० → क० । 'धुटस्तृतीयः' (२।१७६) क० → ग० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) ग०→ क० । यद्वा विष्वक् सेना[यां] यस्य । विष्वक्शब्दोऽव्ययस्तदा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy