SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । वेः स्त्रः ।।२।३।२३।। [विष्टरो वृक्षः] वि 'स्तृगश् आच्छादने' (१५२१) स्तृ । विस्तृणातीति । 'अच्' (५1१।४९) अच्प्र० → अ । 'नामिनो गुणो०' (४।३।१) गु० अर् । अनेन स० → ष० । ' [विष्टरमासनम्] विस्तीर्यते इति । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प० → अ । नामिनो गुणो० (४।३।१) गु० अर् । अनेन स० → प० । [विष्टारपङ्क्तिश्छन्दः] विस्तीर्यते विष्टारः । 'छन्दोनाम्नि' (५।३।७०) घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । [विस्तारः पटस्य विस्तरणं = विस्तारः । 'वेरशब्दे प्रथने' (५।३।६९) घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४३५१) वृ० आर् ||छ।। अभिनिष्टानः ।।२।३।२४॥ [अभिनिष्टानः] अभि-निभ्यां विशिष्ट: स्तानः = अभिनिष्टानः । [अभिनिष्टानो वर्णः] # अभिनिस् अग्रे 'तनूयी विस्तारे' (१४९९) तन् । अभि-निस्तन्यते । 'अनट्' (५।३।१२४) अनटप० → अन । 'व्यत्यये लुग वा' (१३५६) रलोपोऽनेन निपातः ।।छ।। गवि-युधेः स्थिरस्य ।।२।३।२५।। [गवियुधेः] गविश्च युधिश्च, तस्य(?) । (तस्मात्) । [गविष्ठिरः] गवि स्थिरः । अनेन ष० । सूत्रनिर्देशाद् अलुप्समासः । [युधिष्ठिरः] युधि स्थिरः । 'अद्-व्यञ्जनात् सप्तम्या बहुलम्' (३।२।१८) अलुप्समासः । अनेन षत्वे 'तवर्गस्य श्चवर्ग०' (१।३।६०) थ० → ठ० ।।छ।। एत्यकः ।।२।३।२६।। [एति] एत् सप्तमी ङि । [अकः] न क = अक्, तस्मात् । [हरिषेणः] हरि-सेना । हरिः सेनायां यस्य । 'गोश्चान्ते इस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) ह्रस्वः । अनेन षत्वम् । [श्रीषेणः] श्रीः सेनायां यस्य । ‘गोश्चान्ते०' (२१४९६) ह्रस्वः । अनेन षत्वम् । [वायुषेणः] वायुः सेनायां यस्य । 'गोश्चान्ते०' (२१४९६) ह्रस्वः । अनेन षत्वम् । [मातृषेणः] माता सेनायां यस्याऽसौ । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः । अनेन षत्वम् । [हरिसिंहः] हरिश्चासौ सिंहश्च । P卐 'स्तन शब्दे' (३२३) स्तन् । अभि-निस्तन्यते । 'भावा-5कोंः ' (५।३।१८) घञ्प्र० । मध्यमवृत्तौ - अभिनिः स्तन्यते । धातुपारायणे - श० म० न्यासानुसन्धाने - अभिनिस्तन्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy