________________
अथ द्वितीयाऽध्यायस्य तृतीयः पादः ॥
[शिड्नान्तरे] शिट् च नश्च = शिट(ड्)नौ, शिट्(ड्)नाभ्यामन्तरं = शिट(ड्)नान्तरम्, तस्मिन् । ___[आशिषा] 'शासूक् अनुशिष्टौ' (१०९५) शास्, आङ्यूर्व० । आशासनमाशीः । 'क्रुत्-संपदादिभ्यः क्विप्' (५।३।११४) क्विप्प० । 'आङः' (४।४।१२०) इस्० = शिस् । तेन = आशिषा, तृतीया टा । अनेन ष० ।
+ [सिषेव] ‘षिवूच् उतौ' (११६४) षिव् । 'षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३।९८) सिव् । परोक्षा णव् । 'द्विर्धातुः परोक्षा डे प्राक०' (४।१।१) द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ‘लघोरुपा०' (४।३।४) गु० ए।
___ [शिष्यते] 'शासूक् अनुशिष्टौ' (१०९५) शास् । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'इसासः शासोऽङ्-व्यञ्जने' (४।४।११८) इस् ।
चिचीषति] 'चिंगट चयने' (१२९०) चि । चेतुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'स्वरहन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । 'सन्-यडश्च' (४।१३) द्विवचनम् । 'हस्वः' (४।१।३९) ह्रस्वत्वम् ।
[सुष्वाप] 'जिष्वपंक् शये' (१०८८) ष्वप् । 'षः सोऽष्ट्यै-ष्ट्वि-ष्वष्कः' (२।३।९८) स्वप् । परीक्षा णव् । 'द्विर्धातुः परोक्षा-डे प्राक०' (४११) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।११४४) अनादिव्यञ्जनलोपः । 'स्वपेर्य-डे च' (४1१1८०) व० → उ० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः ।
[लुलूषति] 'लूग्श् छेदने' (१५१९) लू । लवितुमिच्छति । 'तुमर्हादिच्छा०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१३) द्विवचनम् । ‘ह्रस्वः' (४।१।३९) ह्रस्वत्वम् ।
[अनैषीत् ‘णींग प्रापणे' (८८४ )णी । 'पाठे धात्वादेर्णा नः' (२।३।९७) नी । अद्यतनी दि । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । 'सिचि परस्मै समानस्याऽडिति' (४।३।४४) वृ० नै । 'अड़ धातोरादि०' (४।४।२९) अडागमः ।
[अकौषीत्] 'कुंक् शब्दे' (१०८६) कु । अद्यतनी दि । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । 'सिचि परस्मै समानस्याऽडिति' (४।३।४४) वृ० को । 'अड् धातोरादि०' (४।४।२९) अडागमः ।
[सर्पिष्मान सर्पिर्विद्यते यस्य । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२19) मतुप्र० → मत् । [यजुष्मान्] यजुर्विद्यते यस्य । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । [दोष्मान्] दोर्विद्यते यस्याऽसौ । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । अनेन सर्वत्र षत्वम् ।
[पुपूर्षति] 'पृश् पालन-पूरणयोः' (१५३२) पू । पर्तु(परितु)मिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प० । 'ओष्ठयादुर्' (४।४।११७) उर् । 'सन्-यडश्च' (४।१।३) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'भ्वादे मिनो०' (२।१।६३) दीर्घः । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[पिपक्षति] 'डुपचीष् पाके' (८९२ ) पच् । पक्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१३) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'सन्यस्य' (४११५९) इ । 'च(२।१।८६) च० → क० । अनेन स० → प० । क-षसंयोगे क्ष ।
[अपाषु] 'अशू गतौ च' (१०५) अश, अपपूर्व० । अपाश्चन्तीति क्विप् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । सप्तमी सुप् । ‘पदस्य' (२।१८९) चलोपः । 'युजञ्च-क्रुञ्चो नो ङः' (२।१७१) न० → ० ।
ॐ मध्यमवृत्तौ - बृहद्वृत्तौ च सिषेवे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org