________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [क्रुङषु] 'क्रुञ्च गतौ' (१०१) क्रुथ् । क्रुञ्चतीति क्विप् । 'क्विप्' (५।१।१४८) क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । सप्तमी सुप् । 'पदस्य' (२।१।८९) चलोपः । 'युजञ्च - क्रुञ्चो नो ङः ' (२।१।७१) न० → ड० ।
[ बहुवाशषि कुलानि ] बह्व्य आशिषो येषु कुलेषु तानि । प्रथमा जस् । 'नपुंसकस्य शि : ' (१।४।५५) शि० इ० । 'घुटां प्राक् (१।४।६६) नोऽन्तः । ' न्स्महतोः ' (१।४।८६) दीर्घः । अनेन षत्वम् ।
७२
[सिसाधयिषति] राधं (१३०४ ) - 'साधंट् संसिद्धौ ' (१३०५) साधू । साध्नुवन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० इ । साधयितुमिच्छति । 'तुमर्हादिच्छायां ० ' ( ३।४।२१ ) सन्प्र० । 'सन् - यश्च' (४।१।३) द्विर्वचनु । ‘व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४) अनादिव्यञ्जनलोपः । ' ह्रस्वः' ( ४|१|३९) सा०स० । 'सन्यस्य' (४।१।५९) इ । 'स्ताद्यशितोऽत्रोणादेरिट्' ( ४१४१३२ ) इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । अनेन षत्वम् ||६||
समासेऽग्नेः स्तुतः ||२।३।१६।।
[अग्निष्टुत्] अग्नि 'ष्टुंग्क् स्तुतौ' (११२४ ) ष्टु । ' षः सोऽष्टयै- ष्ठिव-ष्वष्कः ' (२।३।९८) स्तु । 'निमित्ता नैमित्तिकस्याऽप्यभावः' ( न्यायसंग्रह : १/ २९ ) स्तु । अग्निं स्तौतीति क्विप् । 'ह्रस्वस्य तः पित्कृति' (४|४|११३) तोऽन्तः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । अनेन षत्वम् ।
[अग्निष्टुतौ] अग्नि स्तुतः इति क्विप् । 'ह्रस्वस्य तः पित्कृति' ( ४|४|११३ ) तोऽन्तः । अप्रयोगीत् (१।१।३७ ) क्विप्लोपः । प्रथमा औ । अनेन षत्वम् ।
[अग्निष्टुतः ] अग्नि स्तुवन्तीति क्विप् । 'ह्रस्वस्य तः पित्कृति' (४|४|११३) तोऽन्तः । 'अप्रयोगीत् ' (१।१।३७ ) क्विप्लोपः । प्रथमा जस् । अनेन षत्वम् ||छ ।
ज्योतिरायुर्भ्यां च स्तोमस्य || २|३|१७||
[ज्योतिरायुर्भ्याम्] ज्योतिस् - आयुस् । ज्योतिश्च आयुश्च = [ ज्योतिः ष्टोमः ] ज्योतिषां स्तोमः ।
[ आयुः ष्टोमः ] आयुषां स्तोमः ।
[अग्निष्टोमः] अग्नीनां स्तोमः । अनेन सर्वत्र षत्वम्
[ज्योतिः स्तोमं दर्शयति] ‘दृशुं प्रेक्षणे' (४९५ ) दृश् । पश्यन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे० ' ( ३।४।२०) णिग्प्र० →इ । 'लघोरुपान्त्यस्य' ( ४ | ३ |४) गु० अर् | ।।छ।।
मातृ-पितुः स्वसुः || २ | ३ । १८ ।।
[मातृपितुः ] माता च पिता च =
मातृपितृ, तस्मात् । 'ऋतो डुर्' (१।४।३७) डुर् → उर् ।
[स्वसुः ] 'असूच् क्षेपणे' (१२२१) अस्, सुपूर्व० । सुष्ठु अस्यति - क्षिपति भ्रातृजाया । 'सोरसे:' ( उणा० ८५३) ऋप्र०, तस्य ।
ज्योतिरायुषौ, ताभ्याम् ।
Jain Education International
[मातृष्वसा] मातृ-स्वसृ । मातुः स्वसा । प्रथमा सि । 'ऋदुशनस्पुरुदंशोऽनेहसश्च सेर्डा : ' (१।४।८४) डा० आ० । ' डित्यन्त्यस्वरादेः' (२।१।११४ ) ऋलोपः ।
[पितृष्वसा ] पितृ - स्वसृ । पितुः स्वसा । प्रथमा सि । 'ऋदुशनस् पुरुदंशो० ' (१।४।८४) डा० आ० ।
For Private Personal Use Only
www.jainelibrary.org