________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[धनुष्पृष्ठम्] धनुषः पृष्ठम् । [धनुष्फलम्] धनुषः फलम् । [तिष्ठतु सर्पिः, पिब त्वमुदकम] गुणबाधनार्थं 'श्रौति-कृवु-धिवु०' (४।२।१०८) इत्यादिना पिबादेशः सस्वरः क्रियते । [परमसर्पिःकुण्डम्] परमं च तत् सर्पिश्च = परमसर्पिः, परमसर्पिषः कुण्डं = परमसर्पिःकुण्डम् । [इन्द्रधनुःखण्डम्] इन्द्रस्य धनुः = इन्द्रधनुः, इन्द्रधनुषः खण्डं = इन्द्रधनुःखण्डम् । [बहुसर्पिष्कुण्डम्] सर्पिषः कुण्डं = सर्पिष्कुण्डं, बहुसर्पिष्कुण्डं यत्र तत् ।
[बहुसर्पिष्पात्रम्] ईषदूनं सर्पिः = बहुसर्पिः । 'नाम्नः प्राग् बहुर्वा' (७।३।१२) बहुप्र० नाम्नः प्राक् । बहुसर्पिषः पात्रम् ।।छ।।
भ्रातुष्पुत्र-कस्कादयः ।।२।३।१४।। [भ्रातुष्पुत्रकस्कादयः] भ्रातुष्पुत्रश्च कस्कश्च = भ्रातुष्पुत्रकस्को, भ्रातुष्पुत्रकस्कावादी येषां ते । प्रथमा जस् । [भ्रातुष्पुत्रः] भ्रातुः पुत्रः = भ्रातुष्पुत्रः । 'ऋतां विद्या-योनिसंबन्धे' (३।२।३७) अलुक्(प्)समासः ।
[परमसर्पिष्कुण्डिका] 'कुणत् शब्दोपकरणयोः' (१३६६) कुण् । कुण्यते । ‘पञ्चमाड्डः' (उणा० १७०) डप्र० । हूस्वं कुण्डं = कुण्डिका । 'कुत्सिताऽल्पा-ऽज्ञाते' (७।३।३३) कप्र० (?) ('हस्वे' (७।३।४६) कप्प० → क) । 'आत्' (२।४।१८) आप् । 'समानानां०' (१।२।१) दीर्घः । ‘अस्याऽयत्-तत्-क्षिपकादीनाम्' (२।४।१११) इ । परमं च तत् सर्पिश्च = परमसर्पिः, परमसर्पिषः कुण्डिका = परमसर्पिष्कुण्डिका ।
[परमधनुष्कपालम्] परमं च तद् धनुश्च = परमधनुः, परमधनुषः कपालं = परमधनुष्कपालम् । [परमबर्हिष्पूलः] परमाश्च ते बर्हिणश्च = परमबर्हिणः, परमबर्हिणां पूलः = परमबर्हिष्णूलः । [परमयजुष्पात्रम्] परमं च तद् यजुश्च = परमयजुः, परमयजुषः पात्रं = परमयजुष्पात्रम् ।
[कस्कः ] किम । प्रथमा सि । 'किमः कस्तसादौ च' (२११४०) कादेशः । 'सो रुः' (२११७२) र० । 'वीप्सायाम' (७।४।८०) द्विवचनम् । अनेन र० → स० ।
[कौतस्कुतः] कस्मात् = कुतः । 'किमद्वयादिसर्वाद्यवैपुल्यबहोः पित् तस्' (७।२।८९) तस्प० । 'इतोऽतः कुतः' (७।२।९०) निपातनम् । वीप्सायाम्' (७।४।८०) द्विर्वचनम् । कुतः कुतः आगतः । 'तत आगते' (६।३।१४९) अण्प्र० । द्विर्वचने कृते 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः कौ । 'प्रायोऽव्ययस्य' (७।४।६५) अस्लोपः ।
[सद्यस्कालः] सद्यस्तत्क्षणादेव कालो यस्याऽसौ ।।
[साद्यस्क्रः] 'डुक्रींग्श् द्रव्यविनिमये' (१५०८) की । सद्यः क्रयणं = सद्यस्क्रीः । क्विप्प्र० । 'अप्रयोगीत्' (१1१।३७) क्विपलोपः । तत्र भवः = साद्यस्क्रः । 'भवे' (६।३।१२३) अणप्र० । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) ईलोपः ।।छ।।
___ नाम्यन्तस्था-कवर्गात् पदान्तः कृतस्य सः शिड्नान्तरेऽपि ।।२।३।१५।। [नाम्यन्तस्थाकवर्गात] नामी च अन्तस्थाश्च कवर्गश्च = 5 नाम्यन्तस्थाकवर्गस्तस्मात् । [पदान्तः] पदस्य अन्तः = पदान्तस्तस्मिन्, सप्तमी ङि । +सूत्रत्वात् लोपः ।
P'
नाम्यन्तस्थाकवर्गम् ।
P + 'अव्ययस्य' (३।२७) डिलोपः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org