________________
अथ द्वितीयाऽध्यायस्य तृतीयः पाद: ।।
NNNNN
→ ष० ।
[परमधनुष्पतति] परमं च तद् धनुश्च = परमधनुः, अम् । ‘अनतो लुप्' (१।४५९) अम्लोपः । अनेन र०→ष० ।
5 [परमसर्पि - कुण्डम परमं च तत् सर्पिश्च = परमसर्पिः । परमसर्पिषः कुण्डम् । 'रः कख-पफयोः - क - ( पौ' (१।३।५) ४ क । 'कुणत् शब्दोपकरणयोः' (१३६६) कुण् । 'कु-गु-हु-नी-कुणि-तुणि-पुणि-मुणि-शुन्यादिभ्यः कित्' (उणा० १७०) किद् डिप्र० । प्रथमा सि । 'अतः स्यमोऽम्'(१।४।५७)अम् ।।छ।।
नैकार्थेऽक्रिये ।।२।३।१२।। [एकार्थे] एकोऽर्थो यस्य तद् = एकार्थम्, तस्मिन् ।
[अक्रिये] न विद्यते क्रिया प्रवृत्तिनिमित्तं यस्याऽसावक्रियः । 'गोश्चान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ' (२१४।९६) ह्रस्वः । 'नञत्' (३।२।१२५) न० → अ०, तस्मिन् ।
[सर्पि - कालकम्] सर्पिस् । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । कालमेव = कालकम् । 'कालात्' (७।३।१९) कप्र० ।
[यजु ) पीतकम्] पीत । पीतेन रक्तं = पीतकम् । 'नील-पीताद-कम्' (६।२।४) कप्र० ।
[सर्पिष्कुम्भे, सर्पि - कुम्भे] 'सर्पिस् । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । कुम्भ सप्तमी ङि । 'वेसुसोऽपेक्षायाम्' (२।३।११) विकल्पे र० → ष० ।
[धनुष्प्राप्तम, धनुःप्राप्तम्] 'आप्लँट व्याप्ती' (१३०७) आप, प्रपूर्व० । प्राप्यते स्म । 'गत्यर्था-ऽकर्मक-पिब-भजेः' (५।१।११) क्तप्र० → त । ‘वेसुसोऽपेक्षायाम्' (२।३।११) विकल्पे र० → ष० ।।छ।।
समासेऽसमस्तस्य ।।२।३।१३।। [समासे] समसनं = समासस्तस्मिन् । [असमस्तस्य समस्यते स्मेति समस्तं, न समस्तं = असमस्तम् । 'नञत्' (३।२।१२५) न० → अ०, तस्य । [सर्पिष्कुम्भः] सर्पिषः कुम्भः = सर्पिष्कुम्भः ।
[सर्पिष्कृत्य] सर्पिस् 'डुकंग करणे' (८८८ ) कृ । असर्पिषः करणं पूर्वम् । कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्वे च्चिः' (७।२।१२६) चिप० । 'अप्रयोगीत्' (१1१1३७) च्चिलोपः । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप' (३।२।१५४) यप् । 'हूस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः ।
[सर्पिष्पानम्] सर्पिषः पानं = सर्पिष्पानम् । अत्र ‘पानस्य भावकरणे' (२।३।६९) इत्यनेन णत्वे प्राप्ते ‘षात् पदे' (२।३।९२) इत्यनेन निषेधः ।
[सर्पिष्फलम्] सर्पिषः फलम् ।
[धनुष्कृत्य] धनुस् । अधनुषः करणं पूर्वम् । 'कृ-भ्वस्तिभ्यां कर्मकर्तृभ्यां० (७।२।१२६) च्चिप्र० । 'अप्रयोगीत्' (११।३७) च्विलोपः । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'इस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः ।
[धनुष्खण्डम्] धनुषः खण्डम् ।
卐 बृहवृत्तौ - परमसर्पिःकुण्डम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org