________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
प्रादुष्कृतमिति - अत्र अन्ये तु निबन्धकाराः प्रादुष्पीतमित्यप्यधीयते, तच्च न युक्तं, तथा द्योतकरः - प्रादुष्पीतमित्यसदेतदुदाहरणं विरोधात्, प्रादुःशब्दस्य कृभ्वस्तिविषय एवोपलम्भादिति ।
[चतुष्कण्टकम्] चतुर-कण्टक । चतुण्ाँ कण्टकानां समाहारः । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ।
[चतुष्पात्रम्] चतुर्-पात्र | चतुर्णां पात्राणां समाहारः = चतुष्पात्रम् । प्रथमा सि । ‘अतः स्यमोऽम्' (१।४।५७) अम् । ‘समानादमोऽतः' (१।४।४६) अलोपः ।
[नि३ ष्कुल !] निर्-कुल । निर्गतं कुलं यस्याऽसौ निष्कुलः, तस्य संबोधनं । 'आमन्त्र्ये' (२।२।३२) सि । 'अदेतः स्यमोर्लुक्' (१।४।४४) सिलोपः । 'दूरादामन्त्र्यस्य गुरुर्वकोऽनन्त्योऽपि लनृत्' (७।४।९९) प्लुतः ।
[दुइ पुरुष !] दुर-पुरुष । दुष्टः पुरुषो यस्याऽसौ दुष्पुरुषः, तस्य संबोधनं । 'आमन्त्र्ये' (२।२।३२) सि । 'अदेतः स्यमोर्लुक्' (१।४।४४) सिलोपः । 'दूरादामन्त्र्यस्य गुरुर्वकोऽनन्त्योऽपि लनृत्' (७।४।९९) प्लुतः ।
_[नैष्कुल्यम्] निष्कुलस्य भावः = नैष्कुल्यम् । 'पति-राजान्तगुणाङ्गराजादिभ्यः कर्मणि च' (७।१।६०) य्यणप० → य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० नै । अनेन र० →ष० ।
[दौष्कुल्यम् ?] दुष्कुलस्य भावः = दौष्कुल्यम् । ‘पति-राजान्तगुणाङ्ग राजादिभ्यः कर्मणि च' (७।१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० दौ । अनेन र० → ष० ॥छ।।
सुचो वा ।।२।३।१०।। [द्विष्करोति, द्वि : करोति, द्विःकरोति] द्वि । द्वौ वारावस्य द्विः । 'द्वि-त्रि-चतुरः सुच्' (७।२।११०) सुच्प्र०-→स० ।
[त्रिष्खनति, त्रि ४ खनति, त्रिःखनति] त्रि । त्रयो वारा अस्य त्रिः । 'द्वि-त्रि-चतुरः सुच्' (७।२।११०) सुच्प्र० → स० । अनेन विकल्पे र० → ष० ।
[चतुष्पचति, चतु(पचति, चतुःपचति चतुर् । चत्वारो वारा अस्य । 'द्वि-त्रि-चतुरः सुच्' (७।२।११०) सुच्प्र० → स० । 'रात् सः' (२।१।९०) सलोपः । अनेन विकल्पे र० → ष० ।
[चतुष्फलति, चतुफलति, चतुःफलति] चतुर् । चत्वारो वारा अस्य । 'द्वि-त्रि-चतुरः सुच' (७।२।११०) सुचप्र० → स० । 'रात् सः' (२।१।९०) सलोपः । अनेन विकल्पे र० → ष० ॥छ।।
वेसुसोऽपेक्षायाम् ।।२।३।११।। . [वेसुसोऽपेक्षायाम्] वा । इस् च उस् च = इसुस, तस्य । अप 'ईक्षि दर्शने' (८८२ ) ईक्ष । अपेक्षणमपेक्षा । 'क्तेटो गुरोर्व्यञ्जनात्' (५।३।१०६) अप्र० । 'आत्' (२।४।१८) आप् । 'समानानां०' (१।२।१) दीर्घः, तस्याम् ।
[सर्पिष्फेनायते] सर्पिस् । द्वि०अम् । 'अनतो लुप्' (१।४।५९) अम्लोपः । फेन इवाऽऽचरति । ‘क्यङ्' (३।४।२६) क्यड्स० → य (?) ('फेनोष्म-बाष्प-धूमादुद्वमने' (३।४।३३) क्यङ्प्र०) । दीर्घश्च्चि-यङ्यक्-क्येषु च' (४।३।१०८) दीर्घः । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[धनुष्खण्डयति] धनुस् । द्वि० अम् । ‘अनतो लुप्' (१।४।५९) अम्लोपः । 'खडुण् भेदे' (१६२८) खड् । ‘उदितः, स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । 'चुरादिभ्यो णिच्' (३।४।१७) णिचप्र० →इ । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणो०' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[परमसर्पिष्करोति परमं च तत् सर्पिश्च = परमसर्पिः, अम् । 'अनतो लुप' (१।४।५९) अम्लोपः । अनेन र०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org