SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य तृतीयः पादः ।। ६७ [धनुष्कल्पम्] ईषदपरिसमाप्तं धनुः = धनुष्कल्पम् । ‘अतमबादेरीषदसमाप्ते०' (७।३।११) कल्पप्प्र० → कल्प | [गीष्कल्पा] ईषदपरिसमाप्ता गी: = गीष्कल्पा । 'अतमबादेरीषदसमाप्ते०' (७।३।११) कल्पप्र० → कल्प । [सर्पिष्कम्] कुत्सितं सर्पिः = सर्पिष्कम् । 'कुत्सिता-ऽल्पा-ऽज्ञाते' (७।३।३३) कप्र० । [सार्पिष्कः] सर्पिस् । सर्पिषा संस्कृतः । 'संस्कृते' (६।४।३) इकणप्र० । 'ऋवर्णोवर्ण-दोसिसुसशश्चदकस्मात्त इकस्येतो लुक्' (७।४।७१) इकस्य इलोपः । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । [धानुष्कः] धनुस् । धनुः प्रहरणमस्य । 'प्रहरणम्' (६।४।६२) इकण्प्र० । 'ऋवर्णोवर्ण-दोसिसुसशश्चकस्मात्त०' (७।४७१) इकस्य इलोपः । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धि: । [सर्पिष्काम्यति सर्पिरिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) काम्यप्र० । [अयस्कल्पम्] ईषदपरिसमाप्तं अयः = अयस्कल्पम् । 'अतमबादेरीषदसमाप्ते०' (७।३।११) कल्पप्र० → कल्प । [भिन्धुः पापानि] 'भिद्रूपी विदारणे' (१४७७) भिद् । सप्तमी युस् । रुधां स्वराच्श्नो नलुक् च' (३।४।८२) श्नप्र० → न । 'श्ना-ऽस्त्योर्लुक' (४।२।९०) अलोपः । 5 [गी काम्यति] गिरमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) काम्यप्र० । ‘पदान्ते' (२।११६४) दीर्घः । 'रः कख-पफयोः ४क - पौ (११३५) क । + [धू काम्यति] धुरमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) काम्यप्र० । ‘पदान्ते' (२।१।६४) दीर्घः । ‘रः कखपफयोः ४क - (पौ' (१३५) - क ।।छ।। निर्दुर्वहिराविष्प्रादुश्चतुराम् ।।२।३।९।। [निर्दुर्बहिराविष्प्रादुश्चतुराम्] निश्च निश्च = निरौ, दुश्च दुश्च = दुरौ । 'समानामर्थेनैकः शेषः' (३।१।११८) एकशेषः । निरौ च दुरौ च वहिश्च आविश्च प्रादुश्च चत्वारश्च = निर्दुर्बहिराविष्प्रादुश्चतुरः, तेषाम् । [निष्कृतम्] निर् 'डुकंग करणे' (८८८) कृ । निःक्रियते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त । [निष्पीतम निर ‘पां पाने' (२) पा । निःपीयते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र० → त । 'ईर्व्यञ्जनेऽयपि' (४।३।९७) ई → पी । [दुष्कृतम्] दुःक्रियते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । [दुष्पीतम्] दुःपीयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । [बहिष्कृतम] बहिस् 'डुबंग करणे' (८८८ ) कृ । बहिःक्रियते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त । [बहिष्पीतम्] बहिःपीयते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त । [आविष्कृतम्] आविस् ‘डुकुंग करणे' (८८८ ) कृ । आविःक्रियते स्म । ‘क्त-क्तवतू' (५।१।१७४) क्तप्र० । [आविष्पीतम्] आविःपीयते स्म । ‘क्त-क्तवतू' (५।१।१७४) क्तप० । [प्रादुष्कृतम्] प्रादुःक्रियते स्म । क्तप्र० । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । ॐ बृहद्वृत्तौ - गी:काम्यति । + बृहद्वृत्तौ - धूःकाम्यति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy