________________
६४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
wwwm
[पुंस्कः] पुम्स् । कुत्सितोऽल्पोऽज्ञातो वा पुमान् = पुंस्कः । 'कुत्सिताऽल्पा-ऽज्ञाते' (७।३।३३) कप्प०→क ।
[पुंस्पाशः] निन्द्यः पुमान् = पुंस्पाशः । 'निन्द्ये पाशप्' (७।३।४) पाशप्प्र० → पाश । 'पदस्य' (२।१८९) सलोपः । 'पुमोऽशिट्यघोषेऽख्यागि रः' (१।३।९) म० → र० - अनुस्वारश्च । अनेन र० → स० ।।छ।।
शिरोऽधसः पदे समासैक्ये ।।२।३।४।। [शिरोऽधसः] शिरश्च अधश्च = शिरोऽधस्, तस्य । [समासैक्ये] समासस्य ऐक्यं = समासैक्यम्, तस्मिन् ।
[शिरस्पदम्] (१) शिरसः पदं = शिरस्पदम् । प्रथमा सि । ‘अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ।
[अधस्पदम्] अधसः पदं = अधस्पदम् । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ।
[शिरःखण्डम्] शिरसः खण्डम् । [परमशिरःपदम] परमं च तत् शिरश्च = परमशिरः,(२) परमशिरसः पदं = परमशिरःपदम् । [परमाधःपदम्] परमं च तद् अधश्च = परमाधस्, परमाधसः पदं = परमाधःपदम् ।।छ।।
अतः कृ-कमि-कंस-कुम्भ-कुशा-कर्णी-पात्रेऽनव्ययस्य ।।२।३।५।। [कृकमिकंसकुम्भकुशाकर्णीपात्रे] कृश्च कमिश्च कंसश्च कुम्भश्च कुशा च की च पात्रं च = कृकमिकंसकुम्भकुशाकर्णीपात्रम्, तस्मिन् ।
[अनव्ययस्य] न अव्ययं = अनव्ययम् । 'अन् स्वरे' (३।२।१२९) अन्, तस्य ।
[अयस्कृत्] अयस् ‘डुकृग् करणे' (८८८) कृ । अयः करोतीति क्विप् । 'ह्रस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । 'अप्रयोगीत्' (१1१1३७) क्विप्लोपः । 'सो रुः' (२।१७२) र० । अनेन र०→स० । 'इस्युक्तं कृता' (३११४९) समासः ।
[अयस्कारः] अयः करणम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'नामिनोऽकलि हलेः' (४।३।५१) वृ० आर् । अनेन र० → स० ।
[अयस्कृतम्] अयः क्रियते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० → त । अनेन र० → स० ।
[यशस्कामः] यशस् ‘कमूङ् कान्तौ' (७८९) कम् । यशः कामयते । 'शीलि-कामि-भक्ष्याचरीक्षि-क्षमो णः' (५।१।७३) णप्र० ।
[अयस्कामः] अयस् ‘कमूङ् कान्तौ' (७८९) कम् । 'कमेर्णिङ्' (३।४।२) णिप्र० →इ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । अयः कामयते । 'कर्मणोऽण' (५1१७२) अण्प्र० → अ । 'णेरनिटि' (४।३।८३) णिलोपः ।
[अयस्कंसः] 'कसुकि गति-सा(शा)तनयोः' (११२०) कस् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । कंसनं = कंसः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । अयसः कंसः । प्रथमा सि । 'सो रुः' (२।१।७२) र० । 'रः पदान्ते०' (१३५३) विसर्गः ।
[अयस्कुम्भः] 'कुभुङ् चलने' ( ) कुभ् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । कुम्भनं = कुम्भः । 'भावाP. (१) शिरसि पदम् । P. (२) परमशिरसि पदम् । ऊ बृहद्वृतौ - पयस्कामः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org