SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य तृतीयः पाद: ।। ६५ ऽकोंः ' (५।३।१८) घञ्प्र० । अयसः कुम्भः । [पयस्कुम्भकपालानि] पयःकुम्भश्च कपालानि च = पयस्कुम्भकपालानि । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१९४१८५) दीर्घः । [अयस्कुशा] अयसः कुशा । [पयस्कुशा] पयसः कुशा । प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । [अयस्कर्णी] 'अयसः कर्णी । प्रथमा सि । ‘दीर्घड्याब्०' (१।४।४५) सिलोपः । [पयस्कर्णी] +पयसः कर्णी । प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । [अयस्पात्रम्] अयसः पात्रम् । [पयस्पात्रम्] पयसः पात्रम् । [अयस्कुम्मी] अयसः कुम्भी । [पयस्पात्री] पयसः पात्री । [शुनस्कर्णः] शुनः कर्णः । 'भ्रातुष्पुत्र-कस्कादयः' (२।३।१४) शुनस् निपातः । [गी:कारः] गिरः करणम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । [धूःकारः] धुरः करणम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'नामिनोऽकलि-हलेः' (४१३५१) वृ० आर् । [भाःकरणम्] भाः क्रियते । 'अनट्' (५।३।१२४) अनटप० → अन । 'नामिनो गुणो०' (४।३।१) गु० अर् । [वाःपात्रम्] वारः पात्रम् । [भास्करः] भाः करोतीति । 'अच्' (५।१।४९) अच्प्र० → अ । 'नामिनो गुणो०' (४।३।१) गु० अर् । 'भ्रातुष्पुत्रकस्कादयः' (२।३।१४) इत्यनेन निपातः । [स्वःकारः] स्वर् । स्वः करोतीति । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'नामिनो०' (४।३।५१) वृ० आर् । [प्रातःकामः] प्रातर् 'कमूङ् कान्तौ' (७८९) कम् । 'कमेर्णिङ्' (३।४।२) णिड्प्र० → इ । 'णिति' (४।३।५०) उपान्त्यवृद्धिः । प्रातः कामयते । 'कर्मणोऽण' (५।१७२) अणप्र० । ‘णेरनिटि' (४।३।८३) णिङ्लोपः । [उपपयःकारः] उप पयस् । पयसः समीपं = उपपयः । उपपयः करोतीति । 'कर्मणोऽण' (५।१७२) अण्प्र० → अ । 'नामिनोऽकलि-हलेः' (४३५१) वृ० आर् । [परमयशःकामः] परमं च तद् यशश्च = परमयशः । परमयशः कामयते । 'कर्मणोऽण्' (५।१।७२) अण्प्र० । 'णेरनिटि' (४।३।८३) णिडलोपः ॥छ।। प्रत्यये ॥२॥३६॥ [पयस्पाशम्] निन्द्यं पयः = पयस्पाशम् । 'निन्द्ये पाशप्' (७।३।४) पाशप्प० → पाश । [यशस्पाशम्] निन्द्यं यशः = यशस्पाशम् । 'निन्द्ये पाशप्' (७।३।४) पाशप्प्र० → पाश । [पयस्कल्पम] ईषदपरिसमाप्तं पयः = पयस्कल्पम् । 'अतमबादेरीषदसमाप्ते कल्पप-देश्यप-देशीयर' (७।३।११) 卐 मध्यमवृत्तौ - श. म. न्यासानुसन्धाने - अय इव कर्णी यस्याः सा । + मध्यमवृत्तौ - श. म. न्यासानुसन्धाने - पय इव कर्णी यस्याः सा | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy