________________
अथ द्वितीयाऽध्यायस्य तृतीयः पादः ॥
६३
(४।३।५०) उपान्त्यवृद्धिः ।
[पुरस्पतनम्] पुरः पत्यते = पुरःपतनम् । 'अनट्' (५।३।१२४) अनटप० → अन । [पुरस्फक्कः] पुरस् ‘फक्क नीचैर्गतौ' (५०) फक्क् । पुरः फक्कनम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । [पुरस्फक्कनम् ] पुरः फक्क्य ते । ‘अनट्' (५।३।१२४) अनट्प्र० → अन । [नमः कृत्वा] नमःशब्दाद् द्वितीया अम् ।
[तिस्रः पुरः करोति] त्रि । द्वितीया शस् → अस् । 'त्रि-चतुरस्तिसृ-चतसृ स्यादौ' (२।१।१) तिसृ आदेशः । 'ऋतो रः स्वरेऽनि' (२।१।२) र० । पुर् द्वितीया शस् → अस्, पुरःशब्द: पुरीवाचकः शसन्तः ।।छ।।
तिरसो वा ||२।३।२।।
[तिरसो वा] तिरस् षष्ठी डस् | वा प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः ।
[तिरस्कृत्य, तिरःकृत्य] तिरस् 'डुकंग करणे' (८८८) कृ । तिरः करणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । 'कृगो नवा' (३।१।१०) गतिसंज्ञा ।
[तिरस्कर्ता, तिरःकर्ता] तिरः करोतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० ।
[तिरस्कर्तुम्, तिरःकर्तुम्] तिरः करणाय । ‘क्रियायां क्रिया.या०' (५।३।१३) तुम्प० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् ।
[तिरः कृत्वा काष्ठं गतः] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीमृ (३९५) - 'गम्लूं गतौ' (३९६) गम् । गच्छति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादेधुटि क्डिति' (४।२५५) मलोपः ॥छ।।
पुंसः ।।२।३।३। [पुंस्कोकिलः] पुमांश्चासौ कोकिलश्च । ‘पदस्य' (२।११८९) सलोपः । 'पुमोऽशिट्यघोषेऽख्यागि.रः' (१।३।९) म० → र० - अनुस्वारश्च । अनेन र० → स० ।
[पुस्खननम्] पुम्स् 5 ‘खनूग विदारणे' (९१३) खन् । पुंसा खन्यते = पुंस्खननम् । 'अनट्' (५।३।१२४) अनटप० → अन । 'पुमोऽशिट्यघोषेऽख्यागि रः' (१।३।९) म० → र० - अनुस्वारश्च ।
[पुंस्पाकः] पुम्स् 'डुपची पाके' (८९२) पच् । पचनं = पाकः । ‘भावा-ऽकोः ' (५।३।१८) घञ्प्र० । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः । तेऽनिटश्च-जोः क-गौ घिति' (४191१११) च० → क० । पुंसः पाकः । 'पदस्य' (२191८९) सलोपः । 'पुमोऽशिट्यघोषेऽख्यागि रः' (१३९) म० → र० - अनुस्वारश्च । अनेन र० → स० ।
[पुंस्फलम्] पुंसः फलं = पुंस्फलम् । ‘पदस्य' (२।१।८९) सलोपः । 'पुमोऽशिट्यघोषेऽख्यागि रः' (१।३।९) म० → र० - अनुस्वारश्च ।
[पुंस्काम्यति पुम्स् । पुमांसमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) काम्यप्र० । वर्त्त० तिव् । 'कतर्यनभ्यः शव' (३।४७१) शव् । 'लुगस्यादेत्यपदे' (२१११३) अलोपः ।
卐
धातुपारायणे - ‘खनूग् अवदारणे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org