SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ।। अर्हम् ।। ॥ अथ द्वितीयाऽध्यायस्य तृतीयः पादः ॥ नमस-पुरसो गतेः क-ख-प-फि रः सः ।।२।३।१।। [नमस्पुरसः] (१) नमश्च पुरश्च = नमस्पुरस्, तस्य ।। [करवपफि] कश्च खश्च पश्च फश्च = (२) कखपफ्, तस्मिन् । [नमस्कृत्य] नमस् 'डुइंग् करणे' (८८८ ) कृ । (३) नमः करणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हूस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । 'सो रुः' (२११७२) र० । अनेन र० → स० । _ [नमस्कर्ता] नमस्करोतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० । 'नामिनो गुणो०' (४।३१) गु० अर् । ‘हादर्ह०' (१।३।३१) द्वित्वम् । [नमस्कर्तुम्] नमस्करणाय । ‘क्रियायां क्रियायां०' (५।३।१३) तुम्प० । 'नामिनो गुणो०' (४।३।१) गु० अर् । [नमस्कर्तव्यम] नमः क्रियते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'नामिनो गुणो०' (४१३१) गु० अर् । [पुरस्कृत्य पुरस् । पुरः करणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । अनेन र० स० । 'पुरोऽस्तमव्ययम्' (३।१।७) गतिसंज्ञात्वम् । [पुरस्कर्ता] पुरः करोतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र०→तृ । 'नामिनो गुणो०' (४।३।१) गु० अर् । प्रथमा सि । 'ऋदुशनस्-पुरुदंशो०' (१।४।८४) डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । [पुरस्कर्तुम्] पुरः करणाय । 'क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प्र० । [पुरस्कर्तव्यम्] 'डुबंग करणे' (८८८ ) कृ । पुरः क्रियते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । [पुरस्वाद:] 'खादृ भक्षणे' (२९४ ) खाद् । पुरः खादनम् । 'भावाऽकोंः ' (५।३।१८) घञ्प्र० । 'गिति' (४।३।५०) उपान्त्यवृद्धिः । [पुरस्पातः] पुरस् 'पत्लु गतौ' (९६२ ) पत् । पुरः पतनम् । 'भावाऽकर्ताः' (५।३।१८) घञ्प० । 'ञ्णिति' P१. नमाश्च पुराश्च । P२. कखपफम् । P३. अनमो नमः करणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'साक्षादादिश्च्य र्थे' (३।१।१४) इति गतिसंज्ञात्वम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy