________________
अथ द्वितीयाऽध्यायस्य द्वितीयः पादः ॥
अविशेषणे द्वौ चास्मदः || २ |२| १२२ ॥
[ अविशेषणे ] न विद्यते विशेषणं यत्र तद्
[द्वौ चास्मदः ] द्वि प्रथमा औ । च प्रथमा सि । अस्मद् प्रथमा जस् ।
[ आवां ब्रूवः, वयं ब्रूमः ] अस्मद् । औ । 'अमी मः' (२।१।१६) म० । 'युष्मदस्मदो : ' (२।१।६) द० आ० । ' मन्तस्य युवा ऽऽवौ द्वयोः ' (२1१1१०) आवादेशः ।
अविशेषणम् । ‘नञत्’ ( ३।२।१२५) न० अ० तस्मिन् ।
[अहं ब्रवीमि, वयं ब्रूमः] ‘बूंग्क् व्यक्तायां वाचि' (११२५ ) बू । वर्त्त० मिव् । 'बूतः परादिः ' ( ४ | ३ |६३ ) ईत् । 'नामिनो गुणो० ' ( ४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ॥छ ।
फल्गुनी - प्रोष्ठपदस्य भे ||२२|१२३||
[ फल्गुनीप्रोष्ठपदस्य ] फल्गुनी च प्रोष्ठपदा च = फल्गुनीप्रोष्ठपदम् । ‘क्लीबे' (२।४।९७) ह्रस्वत्वम्, तस्य । [भे] भ सप्तमी ङि ।
६१
[कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः] किम् । कस्मिन् काले = कदा | 'किम्-यत्-तत्-सर्वेका ऽन्यात् काले दा (७।२।९५) दाप्र० । 'किमः कस्तसादौ च ' (२।१।४० ) किम् - क० । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । फल्गुन 'गौरादिभ्यो मुख्यान्ङीः ' (२।४।१९ ) ङी । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । फल्गुनीभ्यां चन्द्रयुक्ताभ्यां युक्तः कालः । 'चन्द्रयुक्तात् काले० ' ( ६।२।६) अण्प्र० 'लुप् त्वप्रयुक्ते' अण्लोपः । पूर्वा औ ।
[कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः] किम् । कस्मिन् काले = कदा । 'किम्-यत्-तत्-सर्वेका ऽन्यात् काले दा ' ( ७।२।९५) दाप्र० । 'किमः कस्तसादौ च ' (२1१।४०) किम् क० । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । पूर्वा औ । प्रोष्ठस्येव पादौ यस्याः सा = प्रोष्ठपदा । 'आत्' (२।४।१८) आप् ।
[ फल्गुनीषु जाते फल्गुन्यौ माणविके] फल्गुनीषु जातः । 'जाते' (६ । ३ । ९८) अण्प्र० । 'बहुलमन्येभ्यः' ( ६ | ३|१०९ ) अण्लोपः ।।छ।।
गुरावेकश्च ||२||१२४॥
[गुरौ ] गुरु सप्तमी ङि । 'ङि' (१।४।२५) ङि → डौ० औ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) उलुक् । [ स कारुणिक उपाध्यायः, ते कारुणिका उपाध्यायाः ] करुणा । करुणया चरति = कारुणिकः । 'चरति' (६।४।११) इक । 'अवर्णवर्णस्य' (७।४।६८) आलोपः ।
इकण्प्र०
Jain Education International
[ अयं तपस्वी, इमे तपस्विनः ] तपस् । तपो विद्यते यस्याऽसौ तपस्वी । 'अस्- तपो माया - मेधा सजो विन्' (७।२।४७ ) विन्प्र० । सि-जस् ।
[इह भवानाह, इह भवन्तस्त्वाहुः ] 'बूंग्क् व्यक्तायां वाचि' (११२५) बू । वर्त्त० तिव् अन्ति । 'बूगः पञ्चानां पञ्चाSSहश्च' (४।२।११८) बू आहु आदेश: । तिव्णव्०, अन्ति उस् |छ ।
षष्ठः पादः समाप्तः ||छ ||
For Private Personal Use Only
-
www.jainelibrary.org