________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
हेत्वर्थस्तृतीयाद्याः ।।२।२।११८।। हेत्वर्थः] हेतुरर्थो येषां ते = हेत्वस्तैिः = हेत्वथैः ।। [तृतीयाद्याः] तृतीया आद्या यासां तास्तृतीयाद्याः ।।छ।।
सर्वादेः सर्वाः ।।२।२।११९।। [सर्वादेः सर्वाः] सर्व आदिर्यस्याऽसौ सर्वादिः, म तस्मात् । सर्वा प्रथमा जस् ।।छ।।
असत्त्वारादर्थाट्टा-डसि-ड्यम् ।।२।२।१२०।। [असत्त्वारादर्थात्] 55 न विद्यते सत्त्वं यस्याऽसौ, 'नञत्' (३।२।१२५) न० → अ० । आरादर्थो यस्याऽसौ आरादर्थः, असत्त्वश्च आरादर्थश्च, तस्मात् ।
[टाडसिड्यम] टाश्च डसिश्च डिश्च अम् च = टासिड्यं, प्रथमा जस्, सूत्रत्वाल्लोपः ।
[दूरः पन्थाः ] पथिन् । प्रथमा सि । 'थो न्थ्' (१।४।७८) थ० →न्थ्० । ए: (१।४।७७) इ०→आ० । पथिन्मथिनृभुक्षः सौ (१।४।७६) न० → आ० । 'समानानां०' (१।२।१) दीर्घः । 'सो रुः' (२।१।७२) र० । 'रः पदान्ते०' (१३५३) विसर्गः ।
[दूराय पथे देहि पथिन् चतुर्थी डे । 'इन् ङी-स्वरे लुक्' (१।४७९) इन्लोपः । [दूरस्य पथः] पथिन् षष्ठी डस् । ‘इन् डी-स्वरे लुक्' (१।४।७९) इन्लोपः ।।छ।।
जात्यारव्यायां नवैकोऽसंख्यो बहुवत् ।।२।२।१२१।। [जात्याख्यायाम्] जातेराख्या = जात्याख्या, तस्याम् ।
[नवैकोऽसंख्यः] नवा प्रथमा सि । एक प्रथमा सि । ‘सो रुः' (२।१।७२) र० । न विद्यते संख्या यत्राऽसौ । 'गोश्चान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) ह्रस्वत्वम् । 'नञत्' (३।२।१२५) न० → अ० । प्रथमा सि ।
[बहुवत] बहु । बहुरिव । 'स्यादेरिवे' (७।११५२) वत्प्र० । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः ।
[संपन्नो यवः, संपन्ना यवाः] 'पदिंच गतौ' (१२५७) पद्, संपूर्व० । संपद्यन्ते स्म ।' 'क्त-क्तवतू' (५।११७४) क्तप्र० → त । ‘रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) द०-त० → न० ।
[संपन्नो व्रीहिः, संपन्ना व्रीहयः] ‘पदिंच् गतौ' (१२५७) पद्, संपूर्व० । संपद्यन्ते स्म । शेषं पूर्ववत् ।
[काश्यपप्रतिकृतिः काश्यपः] कश्यं पिबतीति । 'स्था-पा-स्ना-त्रः कः' (५।१।१४२) कप्र० → अ । 'इडेत-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । कश्यपस्याऽपत्यं = काश्यपः । 'शिवादेरण' (६।१।६०) अण्प्र० → अ (?) | ('विदादेवृद्धे' (६।१।४१) अप्र०) । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । काश्यपस्य प्रतिकृतिः = काश्यपः । प्रथमा सि । 'सो रुः' (२।१।७२) र० ।
[कलिङ्गेष्वक्षिणी शुभे] अक्षि । औ । ‘औरीः' (१।४।५६) ई । 'अनामस्वरे नोऽन्तः' (१।४।६४) नोऽन्तः । 'रघुवर्णान्नो ण०' (२।३।६३) न० → ण० ।
[एके व्रीहयः संपन्नाः सुभिक्षं कुर्वन्ति] 'डुकंग करणे' (८८८ ) कृ । वर्त्त० अन्ति । ‘कृग-तनादेरुः' (३।४।८३) उप्र० । 'नामिनो०' (४।३।१) गु० अर् । 'अतः शित्युत्' (४।२।८९) अ० → उ० । 'इवर्णादे० ' (४।२।२१) वत्वम् ।।छ।। P॥ तस्य । P+ न विद्यते संख्या यस्याऽसौ । Pऊन सत्त्वमसत्त्वम्, आरादर्थो यस्य तदारादर्थम्, असत्त्वे आरादर्थमसत्त्वारादर्थम्, तस्मात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org