SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य द्वितीयः पादः ।। एकशेषः । प्रथमा औ । 'आ द्वेर : ' (२।१।४१) द० अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'आत्' (२।४।१८) आप् । 'औता' (१।४।२०) ए । [ याच्ञां विना विद्धि] 'विदक् ज्ञाने' (१०९९) विद् । पञ्चमी हि । 'हु-धुटो हेर्धिः ' ( ४१२१८३ ) हि०धि० । । छ । । तुल्यार्थैस्तृतीया-षष्ठयौ ।।२।२।११६|| [तुल्यार्थैः ] तुल्योऽर्थो येषां ते = तुल्यार्थास्तैः = तुल्यार्थैः । तृतीया भिस् । [तृतीयाषष्ठ्यौ ] तृतीया च षष्ठी च = तृतीयाषष्ठ्यौ । तुल्यादयो हि धर्मिवाचकाः, तुला उपमादयस्तु तुल्यत्वादिधर्मवचना इति न तुल्यार्थाः ||छ || द्वितीया-षष्ठ्यावेनेनाऽनञ्चैः ।।२।२।११७ ।। [द्वितीयाषष्ठ्यावेनेनाऽनञ्चे:] द्वितीया च षष्ठी च = द्वितीयाषष्ठ्यौ । एन तृतीया टा । 'टा-डसोरिन-स्यौ' (१।४।५) इन । न अञ्चिरनञ्चिः । ' अन् स्वरे' ( ३।२।१२९) अन् । तस्मात् । फ्र [पूर्वेण ग्रामम्, पूर्वेण ग्रामस्य ] पूर्वा । पूर्वस्यां दिशि वसति । 'अदूरे एनः' (७।२।१२२) एनप्र० । 'अवर्णवर्णस्य' ( ७।४।६८) आलोपः । ' रपृवर्णान्नो ण० ' (२| ३ |६३) न० ० । [ अपरेण ग्रामम्, अपरेण ग्रामस्य ] अपरा । अपरस्यामन्तर्वर्त्तिन्यां दिशि वसति । 'अदूरे एनः' (७।२ । १२२) एनप्र० । 'अवर्णवर्णस्य' (७।४।६८) आलोपः । रषृवर्णान्नो ण० ' (२| ३ |६३) न० ० । [दक्षिणेन विजयार्धम्, दक्षिणेन विजयार्धस्य ] दक्षिणा । दक्षिणस्यामदूरवर्त्तिन्यां दिशि वसति । 'अदूरे एनः ' (७।२।१२२) एनप्र० । 'अवर्णवर्णस्य' (७।४।६८) आलोपः । ५९ [ उत्तरेण हिमवन्तम्, उत्तरेण हिमवतः ] उत्तरा । उत्तरस्यामदूरवर्त्तिन्यां दिशि वसति । 'अदूरे एनः ' ( ७ |२| १२२ ) एनप्र० । 'अवर्णवर्णस्य' (७|४|६८) आलोपः । 'रषृवर्णान्नो ण० ' (२।३।६३) न० ० । [प्राग् ग्रामात् ] 'अञ्च गतौ च' (१०५) अञ्च प्रपूर्व० । प्राञ्चतीति क्विप् । 'अञ्चोऽनर्चायाम् ' ( ४।२।४६) नलोपः । 'अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । ' अञ्चः ' (२१४१३) डीप्र० । 'अच्च् प्राग् दीर्घश्च' (२।१।१०४) अच्० च्० प्राग्दीर्घः । प्राच्यामदूरवर्त्तिन्यां दिशि वसति । 'अदूरे एनः' (७।२।१२२) एनप्र० । 'लुवञ्चे:' ( ७।२।१२३) एनलोपः । 'ड्यादेर्गौणस्याऽक्विपस्तद्धितलुक्यगोणी-सूच्योः' ( २ ।४ ।९५) डीनिवृत्तिः । 'चजः क - गम्' (२।१।८६) च० क० । 'धुटस्तृतीयः ' (२।१।७६) क०ग० । [प्रत्यग् ग्रामात्] 'अञ्श्रू गतौ च ' (१०५) अञ्च्, प्रतिपूर्व० । प्रत्यञ्चतीति क्विप् । शेषं पूर्ववत् । प्रतीच्यामदूरवर्त्तिन्यां दिशि वसति । [उदग् ग्रामात्] 'अञ्च गतौ च ' (१०५) अय्, उत्पूर्व० । उदञ्चतीति क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६ ) नलोपः । 'अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । 'अञ्चः ' (२।४।३) डीप्र० । 'अच्च् प्राग् दीर्घश्च' (२1१1१०४) अच् च्० । उदीच्यामदूरवर्त्तिन्यां दिशि वसति । 'अदूरे एनः' (७।२।१२२) एनप्र० । 'लुवञ्चेः' (७।२।१२३) एनलोपः । 'यादेर्गौणस्या०' ( २ । ४ । ९५ ) ङीनिवृत्तिः । 'च-जः क - गम्' (२1१।८६) च० क० । 'धुटस्तृतीयः ' (२1१1७६) क० ग० ||छ। P 5 तस्य । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy