________________
श्रीसिद्भहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
- 'गम्लुं गतौ' (३९६) गम् । 'शकि-तकि-चति-यति-शसि-सहि-यजि-भजि-पवर्गात्' (५।१।२९) यप्र०, तस्मिन् = गम्ये । अध्वन् षष्ठी ङस् । अन्त तृतीया टा । एकोऽर्थो यस्याऽसौ एकार्थः, एकार्थस्य भावः कर्म वा = ऐकार्थ्यम् । 'पतिराजान्तगुणाङ्ग-राजादिभ्यः कर्मणि च' (७।१।६०) ट्यणप्र० → य । 'वृद्धि: स्वरेष्वादे०' (७।४19) वृ० ऐ ।
[वा] वा प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः ।।
[गवीधुमतः सांकाश्यं चत्वारि योजनानि, चतुर्पु वा योजनेषु] गवीधवः सन्त्यस्मिन् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । प्र० जस् (?) पञ्चमी डसि । संकाश । संकाशेन निवृत्तम् । 'सुपन्थ्यादेर्यः' (६।२।८४) ज्यप्र० → य । ‘वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः । ‘अवर्णवर्णस्य' (७।४।६८) अलोपः । चतुर् । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'वाः शेषे' (१।४।८२) उ० → वा० आदेशः ।
[लोकमध्याल्लोकान्तमुपर्यधश्च सप्त रज्जूनामनन्ति] 'म्नां अभ्यासे' (६) म्ना, आपूर्व० । वर्त० अन्ति । कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'श्रौति-कृवु-धिवु०' (४।२।१०८) मन् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[कार्तिक्या आग्रहायणी मासे] 'कृतैत छेदने' (१३२५) कृत् । कृन्ततीति । 'कृति-पुति-लति-भिदिभ्यः कित्' (उणा० ७६) कित् तिकप्र० । कृत्तिकाभिश्चन्द्रयुक्ताभिर्युक्ता पूर्णमासी = कार्तिकी । ‘चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृ० आर् । 'अवर्णे०' (७।४।६८) आलुक् । 'अणजेयेकण-नञ्-सञ्-टिताम्' (२।४।२०) डीप्र० । 'अस्य ड्यां लुक' (२१४१८६) अलोपः । अग्रं हायनस्य । 'द्वि-त्रि-चतुष्पूरणा-ऽग्रादयः' (३।१५६) इत्यनेन समासः । 'पूर्वपदस्थान्नाम्न्यगः' (२।३।६४) न० →ण० । अग्रहायणमेवाऽऽग्रहायणी । 'प्रज्ञादिभ्योऽण्' (७।२।१६५) अणप्र० →
अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० आ । 'अवर्णे०' (७।४।६८) अलोपः । 'अणजेयेकण-नञ्-सञ्-टिताम्' (२०४।२०) डीप्र० । 'अस्य इयां लुक' (२।४।८६) अलोपः । मास सप्तमी ङि ।।छ।।
षष्ठी वाऽनादरे ।।२।२।१०८|| षष्ठी वाऽनादरे षष्ठी प्रथमा सि । वा प्रथमा सि । 'दंडुत् आदरे' (१४६६) दृ, आयूर्व० । आद्रियते = आदरः । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प० । 'नामिनो गुणो०' (४।३।१) गु० अर् । न आदरोऽनादरः । ‘अन् स्वरे' (३।२।१२९) अन्, तस्मिन् ।।
[रुदतो लोकस्य प्रावाजीत, रुदति लोके प्रावाजीत] 'रुदक अश्रुविमोचने' (१०८७) रुद् । रोदितीति । शत्रानशा०' (५।२।२०) शतृप्र० → अत्, तस्य । धृज (१३०) - धृजु (१३१) - ध्वज (१३२) - ध्वजु (१३३) - धज (१३४) - धजु (१३५) - वज (१३६) - 'व्रज गतौ' (१३७) व्रज, प्रपूर्व० । अद्यतनी दि । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'वदव्रज-लू:' (४।३।४८) वृद्धिः वा । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । 'स्ताद्यशितो०' (४।४।३२) इट् । 'इट ईति' (४।३।७१) सिज्लोपः । 'समानानां०' (१।२।१) दीर्घः । 'अड् धातोरादि०' (४।४।२९) अडागमः ।
[क्रोशतो बन्धुवर्गस्य प्राव्राजीत्, क्रोशति बन्धुवर्गे प्रावाजीत्] 'क्रुशं आह्वान-रोदनयोः' (९८६) क्रुश् । क्रोशतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० → अत् । 'लघोरुपान्त्यस्य' (४।३।४) गु० उ० → ओ० ॥छ।।
सप्तमी चाऽविभागे निर्धारणे ।।२।२।१०९॥ [सप्तमी चाऽविभागे] सप्तमी प्रथमा सि । च प्रथमा सि । न विभागोऽविभागः । 'नञत्' (३।२।१२५) न० → अ०, तस्मिन् = अविभागे । सप्तमी ङि ।।
[निर्धारणे] 'धृग् धारणे' (८८७) धृ । धरमाणं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'नामिनोऽकलिP卐 गवीधवोऽत्र सन्ति, गवीधुभिर्निर्वृत्तः, गवीधूनां निवासः, गवीधूनामदूरभवो वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org