________________
अथ द्वितीयाऽध्यायस्य द्वितीयः पादः ॥
[मातरि निपुणः] मातृ । सप्तमी ङि । 'अझै च' (१।४।३९) अर् । [पितरि साधुः] पितृ । सप्तमी ङि । 'अझै च' (१।४।३९) अर् ।।छ।।
स्वेशेऽधिना ||२।२।१०४|| [स्वेशेऽधिना] स्वस्य ईशः = स्वेशस्तस्मिन् । अधि तृतीया टा । 'ट: पुंसि ना' (१।४।२४) टा० → ना० । [अधि मगधेषु श्रेणिकः] मगधानां श्रेणिकोऽधिष्टा - स्वामी तेऽधि मगधास्तेषु = अधि मगधेषु, सप्तमी सुप् । [अधि श्रेणिके मगधाः] श्रेणिको मगधेषु अधि-स्वामी स अधि श्रेणिकस्तस्मिन्, सप्तमी ङि । मगध प्रथमा जस् । छ।।
उपेनाऽधिकिनि ।।२।२।१०५॥
[उपेनाऽधिकिनि] उप तृतीया टा । अधिक । अधिकं विद्यते यस्याऽसौ अधिकी । 'अतोऽनेकस्वरात्' (७।२६) इन् । 'अवर्णेवर्णस्य' (७।४।६८) अलोपस्तस्मिन् ।
[उप खार्यां द्रोणः] खार्यामधिको द्रोणोऽधि खारी, तस्यां अधि खार्यां, सप्तमी ङि । द्रोण । प्रथमा सि छ।।
यद्रावो भावलक्षणम् ।।२।२।१०६।। [यदावः] यस्य भावः = यद्भावः । प्रथमा सि । [भावलक्षणम्॥ भावस्य लक्षणं = भावलक्षणम् ।
[गोषु दुह्यमानासु गतः, दुग्धास्वागतः] 'दुहीक क्षरणे' (११२७) दुह् । दुह्यते = दुह्यमाना । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनश्प्र० → आन । 'क्यः शिति' (३।४।७०) क्यप्र० → य । अतो म आने' (४।४।११४) मोऽन्तः । दुह्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'भ्वादेर्दादेर्घः' (२।१८३) ह० → घ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) घ० → ग० । 'आत्' (२।४।१८) आप् ।
[देवाऽर्चनायां क्रियमाणायां गतः, कृतायामागतः] देव 'अर्च(र्चि)ण पूजायाम्' (१९५४) अर्छ । 'चुरादिभ्यो णिच्' (३।४।१७) णिचप्र० । अर्चयतीति । 'णि-वेत्त्यास श्रन्थ-घट्ट वन्देरनः' (५।३।१११) अनप्र० → अर्चना । ‘णेरनिटि' (४।३।८३) णिचुलोपः । देवस्याऽर्चना = देवाऽर्चना, तस्याम् ।
[आमेषु कलायमात्रेषु गतः, पक्वेषु आगतः] आम्रस्य फलानि । ‘दोरप्राणिनः' (६।२।४९) मयट्प० । ‘फले' (६।२।५८) लुप् । कलाय-त्रिपुटिधान्यविशेषो मानमेषां स्यात् । ‘मात्रट्' (७।१।१४५) मात्रटप्र०, तेषु । 'डुपचींष् पाके' (८९२) पच । पच्यते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० → त । 'क्ष-शुषि-पचो म-क-वम्' (४।२७८) त० → व० । 'च-जः क-गम्' (२।१।८६) च० → क०, तेषु ।
[ऋद्धेषु भुञ्जानेषु दरिद्रा आसते] ‘दरिद्राक् दुर्गतौ' (१०९२) दरिद्रा । दरिद्रातीति । 'अच्' (५।१।४९) अच्प्र० → अ । 'अशित्यस्सन्णकज्-णकाऽनटि' (४।३।७०) आलोपः । प्रथमा जस् । ‘हेतु-कर्तृ-करणेत्थम्भूतलक्षणे' (२।२।४४) इति तृतीया प्राप्नोति परं तदपवादोऽयं सूत्रः कृतः ।।
[ऋद्धेष्वासीनेषु दरिद्रा भुञ्जते] दरिद्रा पूर्ववत् साध्यः ।।छ।।
गते गम्येऽध्वनोऽन्तेनैकार्थ्यं वा ।।२।२।१०७।। [गते गम्येऽध्वनोऽन्तेनैकार्थ्यम गत सप्तमी ङि । अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीमृ (३९५) P卐भावोऽस्य लक्षते येन तद् भावलक्षणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org