________________
५४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
views
[भुक्तपूर्वी ओदनम्] 'भुजंप् पालना-ऽभ्यवहारयोः' (१४८७) भुज । भुज्यते स्माऽस्मिन्निति । 'अद्यर्थाच्चाऽऽधारे' (५।१।१२) क्तप्र० । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमो०' (१३५०) ग० → क० । भुक्तः(क्तं) पूर्वमोदनोऽनेन । 'पूर्वमनेन सादेश्चेन्' (७।१।१६७) इन्प्र० ।।
[उपश्लिष्टो गुरून् मैत्रः] ‘श्लिषंच् आलिङ्गने' (१२१०) श्लिष्, उपपूर्व० । उपश्लिष्यते स्म । ‘श्लिष-शीङ्स्थाऽऽस-वस-जन-रुह-जू-भजेः क्तः' (५।१।९) क्तप्र० → त । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० ।।
[मासमधीती व्याकरणे] अधीत । अधीतमस्याऽस्तीति । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । प्रथमा सि । 'इन-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः ।।छ।।
तद्युक्ते हेतौ ।।२।२।१००।। [तद्युक्ते हेतौ] तेन = व्याप्येन युक्तस्तद्युक्तस्तस्मिन् । हेतु सप्तमी ङि । 'डिौँ' (१।४।३९) डौ० → औ० । 'डित्यन्त्य०' (२।१।११४) उलोपः ।।
चर्मणि द्वीपिनं हन्ति, दन्तयोर्हन्ति कुञ्जरम् ।
केशेषु चमरी हन्ति, सीम्नि पुष्पलको हतः ।।१।। [हन्ति] 'हनंक हिंसा-गत्योः' (११००) हन् । वर्त० तिव् । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) न० → न० । [हतः] हन् । हन्यते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र० → त । 'यमि-रमि-नमि०' (४।२।५५) नलोपः ।
सीमा मर्यादा-वृषणश्च पुष्पलकः कीलकोऽरण्यविड(डा)लश्च । [वेतनेन धान्यं लुनाति] 'लूग्श् छेदने' (१५१९) लू । वर्त्तः तिव् । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । 'प्वादेईस्वः' (४।२।१०५) ह्रस्वः ।।छ।।
अप्रत्यादावसाधुना ।।२।२।१०१।। [अप्रत्यादावसाधुना] प्रतिरादिर्यस्याऽसौ प्रत्यादिः, न प्रत्यादिरप्रत्यादिः । 'नञत्' (३।२।१२५) न० → अ०, तस्मिन् । न साधु(:) = असाधुः । 'नञत्' (३।२।१२५) न० → अ०, तेन = असाधुना । तृतीया टा । 'ट: पुंसि ना' (१।४।२४) टा० → ना० ।
[असाधुमत्रो मातरि मातृ सप्तमी ङि । 'अझै च' (१।४।३९) अर ॥छ।।
साधुना ।।२।२।१०२।। [साधुना] साधु तृतीया टा । 'ट: पुंसि ना' (१।४।२४) टा० → ना० । [साधुमत्रो राजनि] राजन् सप्तमी ङि । 'ई-डौ वा' (२।१।१०९) अनोऽस्य लुक् । [साधुर्मातरि] मातृ सप्तमी ङि । ‘अझै च' (१।४।३९) अर् ||छ।।
निपुणेन चाऽर्चायाम् ।।२।२।१०३।। [निपुणेन चाऽर्चायाम निपुण तृतीया टा । च प्रथमा सि । अर्चा सप्तमी ङि ।
प्रजने स्यादुपसरः कीलः पुष्पलकः शिवः । (अभिधानचिन्तामणिनाममालायाम् - १२७४) पुष्कलकः - शब्दरत्नमहोदधौ । पुष्पलकः - The Students Sanskrit English Dictanory |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org