________________
अथ द्वितीयाऽध्यायस्य द्वितीयः पादः ॥
५३
(५।१।१७४) क्तप्र० । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) ग० → क० ।
[कुशलश्चित्रकर्मणि, न च करोति] ‘डुकंग करणे' (८८८ ) कृ । वर्त्तः तिव् । 'कृग्-तनादेरुः' (३।४।८३) उप्र० । 'नामिनो गुणो०' (४।३।१) अर् । 'उ-श्नोः' (४।३।२) उ० → ओ० । [आयुक्तो गौः शकटे-आकृष्य युक्त इत्यर्थः] गो प्रथमा सि । ओत औ (१।४७४) ओ० → औ० ॥छ।।
स्वामीश्वरा-ऽधिपति-दायाद-साक्षि-प्रतिभू-प्रसूतैः ।।२।२।९८।। [स्वामीश्वराऽधिपतिदायादसाक्षिप्रतिभूप्रसूतैः] स्वामी च ईश्वरश्च अधिपतिश्च दायादश्च साक्षी च प्रतिभूश्च प्रसूतश्च = स्वामीश्वराऽधिपतिदायादसाक्षिप्रतिभूप्रसूतास्तैः ।
[गोषु स्वामी, गवां स्वामी स्व । स्वमस्याऽस्तीति । 'स्वान्मिन्नीशे' (७।२।४९) मिनप्र० - पूर्वस्य दीर्घः । प्रथमा सि । ‘इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः ।
[गोष्वीश्वरः, गवामीश्वरः] 'ईशिक् ऐश्वर्ये' (१११६) ईश् । ईष्टे । 'स्थेश-भास-पिस-कसो वरः' (५।२।८१) वरप्र० ।
[गोषु दायादः, गवां दायादः] दाय 'डुदांग्क् दाने' (११३८) दा, आड्यूर्व० । दायमादत्ते । ‘दश्चाऽऽङः' (५।१।७८) डप्र० । 'डित्यन्त्यस्वरादेः' (२११११४) आलोपः ।
[गोषु साक्षी, गवां साक्षी] साक्षात् । साक्षाद् द्रष्टा = साक्षी । ‘साक्षाद् द्रष्टा' (७।१।१९७) इन्प्र० । 'प्रायोऽव्ययस्य' (७।४।६५) आल्लोपः ।
- [गोषु प्रसूतः, गवां प्रसूतः] ‘धूडौक् प्राणिगर्भविमोचने' (११०७) षू । ‘षः सोऽष्टयै०' (२।३।९८) सू, प्रपूर्व० । प्रसूयते स्म । 'गत्यर्थाऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० → त ।।छ।।
व्याप्ये क्तेनः ।।२।२।९९।। [व्याप्ये क्तेनः] व्याप्य सप्तमी ङि । क्ताद् इन् = क्तेन्, तस्य । व्याप्योपादानात्, तेन वा ? (हि) अधिकारभेदः, पृथग्योगादिति वेति निवृत्तम् ।
[अधीती व्याकरणे] अधीतं व्याकरणमनेन । 'इष्टादेः' (७।१।१६८) इन्प्र० । एवं सर्वत्र ।
[आम्नाती द्वादशाङ्गे] 'म्नां अभ्यासे' (६ ) म्ना, आयूर्व० । आम्नायते स्म । 'गत्यर्था-ऽकर्मक-पिव-भुजेः' (५।१।११) क्तप्र० → त ।
परिगणिती ज्योतिषि] 'गणण संख्याने' (१८७४) गण, परिपूर्व० । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । परिगण्यते स्म । 'गत्यर्था-ऽकर्मक०' (५1१1११) क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । ‘णेरनिटि' (४।३।८३) णिच्लोपः ।
[इष्टी यज्ञे] 'यजी देवपूजा-सङ्गतिकरण-दानेषु (९९१) यज् । इज्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'यजाादे-वचेः किति' (४।१।७९) य्वृत् य० → इ० । 'यज-सृज-मृज०' (२।१।८७) ज० → ष० । 'तवर्गस्य श्ववर्ग०' (११३१६०) त० → ट० । इष्टो यज्ञोऽनेन । 'इष्टादेः' (७।१।१६८) इनप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः ।
[कृतपूर्वी कटम कृतः(तं) पूर्वं कटोऽनेन । 'पूर्वमनेन सादेश्चेन्' (७।१।१६७) इनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org