________________
अथ द्वितीयाऽध्यायस्य द्वितीयः पादः ।।
नोऽन्तः । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । 'पदस्य' (२।१।८९) तलोपः ।
[धारयन्नाचाराङ्गम्] 'धृग् धारणे' (८८७) धृ । धरन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । ‘नामिनोऽकलि-हलेः' (४।३।५१) आर् । अकृच्छ्रेण धारयतीति । 'धारीडोऽकृच्छेऽतृश्' (५१२।२५) अतृप्र० अत् । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शब् । 'नामिनो गुणो० ' ( ४।३।१) गु० ए० । 'एदैतोऽयाय्' (१।२।२३) अय् । प्रथमा सि । 'ऋदुदित: ' (१।४।७०) नोऽन्तः । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । ' पदस्य ' (२।१।८९) तलोपः ।
[कटं कुर्वन् ] 'डुकंग करणे' (८८८ ) कृ । करोतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२० ) शतृप्र० 'कृग्-तनादेरुः ' ( ३।४।८३) उप० । 'नामिनो गुणो०' (४।३।१) गु० अर् । 'अतः शित्युत्' (४।२।८९) अ० 'इवर्णादे० ' (१।२।२१ ) वत्वम् ।
[कटं करिष्यन् ] कृ । करिष्यतीति । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० अत् स्य आदि: । 'स्ताद्यशितो ० ' ( ४ । ४ । ३२ ) इट् । 'नामिनो गुणो०' (४।३।१) गु० अर् ।
४९.
अत् ।
उ० ।
[परीषहान् सासहिः] 'षहि मर्षणे' ( ९९०) षहू । ' षः सोऽष्टयै ष्ठिव ष्वष्कः ' (२।३।९८) सह्, परिपूर्व० । परिस(ष)ह्यन्ते । ‘स्थादिभ्यः कः' (५।३।८२) कप्र० अ । घञ्युपसर्गस्य बहुलम् ' ( ३।२।८६) दीर्घः । सह् । भृशं पुनः पुनर्वासहते । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) यङ्प्र०य । 'सन् यश्च' (४|१|३) द्विर्वचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ' आ-गुणावन्यादेः' (४।१।४८) आ । सासह्यते इत्येवंशीलः । 'डौ सासहि वावहि चाचलिपापतिः' (५।२।३८) सासहिनिपातः ।
[कटं चक्रिः ] कृ । भृशं पुनः पुनर्वा करोति । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) यप्र० । 'सन्-यडश्च' (४।१।३) द्विर्वचनम् । 'ऋतोऽत्' (४।१।३८) कृ० क० । 'क-डश्च ञ्' (४।१।४६) क० च० । क्रियते इत्येवंशीलः । ' सस्त्रिचक्रि- दधि-जज्ञि - नेमिः' (५।२।३९) चक्रिनिपातः ।
[दधिश्चित्तम् ] 'डुधांग्क् धारणे च' (११३९) धा । भृशं पुनः पुनर्वा दधाति । 'व्यञ्जनादेरेकस्वरा० ' ( ३।४१९ ) यङ्ग्र० । ‘सन्-यडश्च' (४|१|३) धा द्विर्वचनम् । 'ह्रस्वः' (४।१।३९) ह्रस्वत्वम् । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) ध० → द० | 'बहुलं लुप्' ( ३।४।१४ ) यलोपः त्रिषूदाहरणेषु । दधातीत्येवंशीलः । ' सस्त्रि- चक्रि-दधि- जज्ञि - नेमिः ' ( ५।२।३९) दधिनिपातः ।
[ एधानाहारको व्रजति] 'हंग् हरणे' (८८५) हृ, आड्पूर्व० । आहरिष्यतीति । क्रियायां क्रियार्थायां तुम्-णकच् भविष्यन्ती' (५|३|१३) णकच्प्र० अक । 'नामिनोऽकलि-हले:' ( ४।३।५१) वृद्धिः आर् ।
[कटं कारको व्रजति] 'डुकृंग् करणे' (८८८) कृ । करिष्यतीति । क्रियायां क्रियार्थायां०' (५।३।१३ ) णकच्प्र० अक । 'नामिनोऽकलि-हले:' ( ४।३।५१) वृ० आर् ।
[वर्षशतस्य पूरक: ] 'पूरण आप्यायने' (१७४९) पूर् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । पूरयतीति । 'णकतृचौ ' ( ५।१।४८ ) णकप्र० अक । णेरनिटि' (४।३।८३) णिच्लोपः ।
[पुत्रपौत्रस्य दर्शकः ] पुत्र । पुत्रस्याऽपत्यमनन्तरम् । ' पुनर्भू - पुत्र- दुहितृ- ननान्दुरनन्तरेऽञ्' (६।१।३९) अञ्प्र० । ' वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः । पुत्रस्य पौत्रः = पुत्रपौत्रस्तस्य । पश्यतीति । 'णक-तृचौ' (५।१।४८ ) णकप्र० → अक । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
Jain Education International
[ ईषत्करः कटो भवता] ईषत् 'डुकृंग् करणे' (८८८ ) कृ । ईषदनायासेन क्रियते । 'दुः स्वीषतः कृच्छ्राऽकृच्छ्रार्थात् खल्' (५|३|१३९) खल्प्र० अ । 'नामिनो गुणो० ' ( ४।३।१) गु० अर् ।
For Private Personal Use Only
www.jainelibrary.org