________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
- [ओदनं भोक्तुं व्रजति] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भोजनाय । ‘क्रियायां क्रियार्थायां तुम्-णकच् भविष्यन्ती' (५।३।१३) तुम्प० । 'च-जः क-गम्' (२।१८६) ज० → ग० । 'अघोषे प्रथमो०' (१।३।५०) ग० → क० । 'लघोरुपान्त्यस्य' (४।३।४) गु० उ० → ओ० ।
[ओदनं पेचिवान] 'डुपची पाके' (८९२) पच् । पेचे । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप० → वस् । अनादेशाऽऽदेरेकव्यञ्जनमध्येऽतः' (४।१।२४) ए । 'घसेकस्वराऽऽतः क्वसोः' (४।४।८२) इट् । प्र० सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः । 'दीर्घड्याब०' (१।४।४५) सिलोपः ।
तत्त्वं विद्वान्] 'विदक् ज्ञाने' (१०९९) विद् । वेत्तीति । ‘वा वेत्तेः क्वसुः' (५।२।२२) क्वसुप्र० → वस् । प्रथमा सि । 'ऋदुदितः' (१।४७०) नोऽन्तः ।
[कटं चक्राणः] चक्रे = चक्राणः । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) कानप्र० → आन । 'द्विर्धातुः परोक्षा-२०' (४।१।१) कृ सउं द्विवचनम् । 'ऋतोऽत्' (४।१।३८) कृ० → क० । 'क-डश्च-ञ्' (४।१।४६) क० (१।२।२१) रत्वम् ।
[वचनमनूचानः] 'वचं भाषणे' (१०९६) वच्, अनुपूर्व० । अनूवाच । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) कानप्र० → आन । 'वेयिवद०' (५।२।३) निपातः । 'यजादि-वचे:०' (४।१७९) वृत् व० → उ० ।
[मलयं पवमानः] 'पूङ् पवने' (६००) पू । पवते = पवमानः । 'पूङ्-यजः शानः' (५।२।२३) शानप्र० → आन । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणो०' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'अतो म आने' (४।४।११४) मोऽन्तः ।
__ [कतीह कवचमुद्वहमानाः] 'वहीं प्रापणे' (९९६) वह्, उत्पूर्व० । उद्वोढुं शक्ताः । 'वयः शक्ति-शीले' (५।२।२४) शानप्र० → आन । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'अतो म आने' (४।४।११४) मोऽन्तः ।
[कतीह शत्रून निघ्नानाः] 'हनंक हिंसा-गत्योः' (११००) हन, निपूर्व० । निहन्तुं शक्ताः । 'वयः शक्ति-शीले' (५।२।२४) शानप्र० । 'गम-हन-जन-खन-घसः स्वरेऽनङि क्डिति लुक' (४२१४४) अलोपः । 'हनो हुनो नः' (२१११११२) नादेशः ।
[कतीह वपुर्भूषयमाणाः] 'भूष अलङ्कारे' (१७५६) भूष । 'चुरादिभ्यो०' (३।४।१७) णिच्प्र० → इ । भूषयतीत्येवंशीलाः । 'वयः शक्ति-शीले' (५।२।२४) शानप्र० → आन । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१) शव् । 'नामिनो गुणो०' (४।३।१) गु० ए० । 'एदैतोऽयाय' (११२१२३) अय् । 'अतो म आने' (४।४।११४) मोऽन्तः ।
[ओदनं पचमानः] 'डुपचींष् पाके' (८९२) पच् । पचते = पचमानः । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनश्प्र० → आन । 'कर्त्तर्यनद्भ्यः०' (३।४।७१) शव् । 'अतो म आने' (४।४।११४) मोऽन्तः ।
[चैत्रेण पच्यमानः] पच्यते = पच्यमानः । 'शत्रानशा०' (५।२।२०) आनशप्र० → आन । 'क्यः शिति' (३।४७०) क्यप्र० → य । 'अतो म आने' (४।४।११४) मोऽन्तः ।
[कटं करिष्यमाणः] 'डुकंग करणे' (८८८) कृ । करिष्यतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनश्प्र० → आन, स्य आदिः । 'स्ताद्यशितो०' (४।४।३२) इट । 'नामिनो गुणो०' (४।३।१) गु० अर् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'रवर्णान्नो ण०' (२।३।६३) णत्वम् । 'अतो म आने' (४।४।११४) मोऽन्तः ।
[अधीयंस्तत्त्वार्थम्] 'इंड्क् अध्ययने' (११०४) इ, अधिपूर्व० । अकृच्छ्रेणाधीते । 'धारीडोऽकृच्छ्रेऽतृश्' (५।२।२५) अतृशप्र० → अत् । 'धातोरिवर्णो०' (२।१५०) इय् । 'समानानां०' (१।२।१) दीर्घः । प्रथमा सि । 'ऋदुदितः' (१।४७०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org