________________
अथ द्वितीयाऽध्यायस्य द्वितीयः पादः ॥
[ उपस्थानीयः पुत्रः पितुः] उपतिष्ठते । 'प्रवचनीयादयः' (५।१।८) अनीयप्र० ||छ ||
तृन्नुदन्ता ऽव्यय-क्वस्वाना- Sतृश् शतृ-डि-णकच् खलर्थस्य || २ |२| ९० ॥ [तृन्नृदन्ताऽव्ययक्वस्वानाऽतृश्शतृडिणकच्खलर्थस्य ] उत् अन्ते यस्याऽसौ उदन्तः । खल् अर्थो यस्याऽसौ खलर्थः । तृन् च उदन्तश्च अव्ययश्च क्वसुश्च आनश्च अतृश् च शता च डिश्व णकच् च खलर्थश्च = तृन्नृदन्ताऽव्ययक्वस्वानाऽतृश्शतृणकच्खलर्थम् तस्य ।
[ वदिता जनाऽपवादान् ] 'वदुङ् स्तुत्यभिवादनयोः' (७२१) वद् । वन्दते इत्येवंशीलः । तृन् शील-धर्म-साधुषु ' (५।२।२७) तृन्प्र० तृ । स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । प्रथमा सि । 'ऋदुशनस् - पुरुदंशो० ' (१।४।८४) डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । जन-अप 'वदुङ् स्तुत्यभिवादनयोः' (७२१) वद् । अपवदनमपवादः । 'भावा-Sकर्त्री : ' (५।३।१८) घञ्प्र० अ । ञ्णिति' ( ४ | ३ |५०) उपान्त्यवृद्धिः । जनानामपवादाः = जनाऽपवादास्तान् ।
४७
[कन्यामलङ्करिष्णुः ] 'डुकृंग् करणे' (८८८) कृ, अलंपूर्व० । अलङ्करोतीत्येवंशीलः । ' भ्राज्यलङ्कृग् निराकृग्-भू-सहिरुचि-वृति वृधि - चरि-प्रजना - ऽपत्रप इष्णुः' (५।२।२८) इष्णुप्र० । 'नामिनो गुणो० ' ( ४।३।१) गु० अर् ।
[रिपून् जिष्णुः ] 'जिं अभिभवे' ( ८ ) जि । जयतीत्येवंशीलः । भू-जेः ष्णुक्' (५।२।३०) ष्णुक्प्र० ।
[ शरान् क्षिष्णुः ] 'क्षिपत् प्रेरणे' (१३१७) क्षिप् । क्षिपतीत्येवंशीलः । ' त्रसि - गृधि - धृषि - क्षिपः क्नुः' (५|२| ३२ ) aro | 'रवर्णान्नो ण० ' (२।३।६३) न० ० ।
[ओदनं बुभुक्षुः ] 'भुजं पालना - ऽभ्यवहारयोः ' (१४८७) भुज् । भोक्तुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१ ) सन्प्र० स । 'सन्-यश्च' (४|१|३) द्विर्वचनु । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) । भु० बु० । 'यज सृज मृज०' (२।१।८७) ज० ष० । 'ष ढोः कस्सि' (२।१।६२ ) ष० → क० । ‘नाम्यन्तस्था०' (२।३।१५) स० ष० । क षसंयोगे क्ष । वुभुक्षतीत्येवंशीलः । ' सन्- भिक्षाऽऽशंसेरु : ' ( ५१२ ।३३ )
उप्र० ।
[देवान् वन्दारुः ] 'वदुङ् स्तुत्यभिवादनयो:' ( ७२१) वद् । 'उदितः ० ' ( ४|४|१८) वन्द् । वन्दते इत्येवंशीलः । ' शृवन्देरारुः' (५।२।३५) आरुप्र० ।
[धारुर्वत्सो मातरम् ] 'ट्वें पाने' ( २८ ) धे । 'आत् सन्ध्यक्षरस्य ( ४।२।१ ) धा । धयतीत्येवंशीलः । 'दा- ट्धेसि-शद-सदो रुः' (५।२।३६) रुप० ।
[श्रद्धालुस्तत्त्वम्] 'डुधांग्क् धारणे च' (११३९) धा, श्रत्पूर्व० । श्रद्धधातीत्येवंशीलः । ' शीङ् श्रद्धा-निद्रा तन्द्रा-दयपति- गृहि-स्पृहेरालुः' (५।२।३७) आलुप्र० । 'समानानां ० ' (१।२1१) दीर्घः । प्रथमा सि । तत्त्व द्वितीया अम् । 'समानादमोऽतः ' (१।४।४६ ) अलोपः ।
[कटं कृत्वा ] 'डुकृंग् करणे' (८८८) कृ । करणं पूर्वं कृत्वा । 'प्राक्काले' (५/४१४७) क्त्वाप्र० त्वा । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः ।
[ पयः पायं पायं व्रजति] 'पां पाने' (२ ) पा । आभीक्ष्ण्यं पानं पूर्वम् । 'ख्णम् चाऽऽभीक्ष्ण्ये' (५।४।४८) ख्णम्प्र० → अम् । 'आत ऐः कृञ्ञ ( ४ | ३ | ५३) आ०
ऐ। एदैतोऽयाय् (१।२।२३) ' आय् । 'भृशा - Sऽभीक्ष्ण्या - ऽविच्छेदे
द्विः प्राक् तमबादेः' (७।४।७३) द्विर्वचनम् ।
P5 अव्ययं च |
Jain Education International
For Private Personal Use Only
www.jainelibrary.org