________________
४६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[भेदिका चैत्रस्य मैत्रस्य काष्ठानाम] भिद् । भिन्दन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । भेदयितुं पर्यायः । 'पर्यायाऽर्हणोत्पत्तौ च णकः' (५।३।१२०) णकप्र० → अक । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'आत्' (२।४।१८) आप् । 'अस्याऽयत्-तत्०' (२।४।१११) इ ।
[आश्चर्य इन्द्रियाणां जयो यूना] 'जिं अभिभवे' (८ ) जि । जयनं = जयः । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प० ।।छ।।
कृत्यस्य वा ।।२।२।८८।। [कृत्यस्य 'डुकंग करणे' (८८८) कृ । क्रियते । 'कृ-वृषि-मृजि-शंसि--गुहि-दुहि-जपो वा (५।१।४२) क्यप्प० → य । हूस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः, तस्य । 'तव्या-ऽनीयौ' (५।१।२७) तव्य-अनीय, 'य एच्चातः' (५।१।२८) य-क्यप्-ध्यण् पञ्च कृत्याः समारव्याता हेमसूरिमहामुनेः ।
भिवतः कार्यः कटः] [भवता कार्यः कटः] 'डुकंग करणे' (८८८) कृ । क्रियते । 'ऋवर्ण-व्यञ्जनाद घ्यण' (५।१।१७) घ्यणप्र० → य । 'नामिनोऽकलि-हलेः' (४।३।५१) आर् ।
[भवतः कर्तव्यः कटः] [भवता कर्तव्यः कटः] क्रियते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । [भवतः करणीयः कटः] [भवता करणीयः कटः] क्रियते । 'तव्या-ऽनीयौ' (५।११२७) अनीयप्र० ।
[भवतो देयः कटः] [भवता देयः कटः] 'डुदांग्क् दाने' (११३८) दा । दीयते = देयः । ‘य एच्चातः (५।१।२८) यप्र०, आ० → ए० ।
[भवतः कृत्यः कटः] [भवता कृत्यः कटः] कृत्यः पूर्ववत् ।
[गेयो माणवको गाथानाम] कैं (३६) - 'मैं शब्दे' (३७) गै । 'आत् सन्ध्यक्षरस्य' (४।२।१) गा । गीयते = गेयः । 'भव्य-गेय-जन्य-रम्या-5ऽपात्या-5ऽप्लाव्यं नवा' (५।१७) गेयनिपातः ।
[प्रवचनीयो गुरुङदशाङ्गस्य] 'वचं भाषणे' (१०९६) वच्, प्रपूर्व० । प्रवक्तीति । 'प्रवचनीयादयः' (५।१।८) अनीयप्र० ॥छ।।
नोभयोर्हेतोः ।।२।२।८९।। [नोभयोर्हेतोः] न प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । उभ षष्ठी ओस् । हेतु षष्ठी डस् । 'डित्यदिति' (१।४।२३) ओ । 'एदोद्भ्यां डसि-इसो रः' (१।४।३५) र० । 'रः पदान्ते०' (१।३१५३) विसर्गः ।
नेतव्या ग्राममजा मैत्रेण] 'णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेों नः' (२।३।९७)नी । नीयते इति नेतव्या । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'आत्' (२।४।१८) आप् । 'समानानां तेन०' (१।२।१) दीर्घः । 'नामिनो गुणो०' (४।३।१) गु० ए० ।
[क्रष्टव्या ग्रामं शाखा चैत्रेण] 'कृषीत् विलेखने' (१३१९) कृष् । कृष्यते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'स्पृशादि-सृपो वा' (४।४।११२) अकारागमः । 'इवर्णादे०' (१।२।२१) रत्वम् । 'तवर्गस्य०' (१।३।६०) त० → ट० ।
[जेतव्यः शतं मैत्रश्चैत्रेण] 'जिं अभिभवे' (८ ) जि । जीयते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'नामिनो गुणो०' (४।३।१) गु० इ० → ए० ।
P卐 सप्तमी ओस् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org