________________
अथ द्वितीयाऽध्यायस्य द्वितीयः पादः ।।
४३
कर्मणि कृतः ।।२।२।८३।। [कर्मणि कृतः] कर्मन् । सप्तमी ङि । 'डुकंग करणे' (८८८) कृ । करोतीति क्विप् कृत् । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । ‘अप्रयोगीत्' (१।१।३७) क्विप्लोपः । तस्य ।
[अपां स्रष्टा] अप् षष्ठी आम् । 'सृजत् विसर्गे' (१३४९) सज् । सृजतीति । ‘णक-तृचौ' (५।१।४८) तृच्प० । 'अः सृजि-दृशोऽकिति' (४।४।१११) अकारागमः । 'इवर्णादे० ' (११२।२१) रत्वम् । 'यज-सृज-मृज०' (२/१९८७) ज० → प० । 'तवर्गस्य श्ववर्ग०' (१३।६०) त० → ट० । प्रथमा सि । 'ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) सि० → डा० → आ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) ऋलोपः ।
[पुरां भेत्ता‘भिदूंपी विदारणे' (१४७७) भिद् । भिनत्तीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ । 'लघोरुपान्त्यस्य' (४।३।४) गु० इ० → ए० । 'अघोषे प्रथमोऽशिटः' (१1३।५०) द० → त० ।
[वर्षशतस्य पूरकः] 'पूरण आप्यायने' (१७४९) पूर् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प० । पूरयतीति पूरकः । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक | ‘णेरनिटि' (४।३।८३) णिच्लोपः ।
[पुत्रपौत्राणां दर्शकः] पुत्र । पुत्रस्याऽपत्यमनन्तरं = पौत्रम् । 'पूनर्भू-पुत्र-दुहितृ-ननान्दुरनन्तरेऽञ्' (६।१।३९) अप० → अ । ‘वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः । ‘अवर्णवर्णस्य' (७।४।६८) अलोपः । पुत्रस्य पौत्राः = पुत्रपौत्रास्तेषां इति कार्य, न पुत्राश्च पौत्राश्च इति द्वन्द्वः, तत्र ‘गवाश्वादिः' (३।११४४) समासः ।
[यवानां लावकः] लुनातीति । ‘णक-तृचौ' (५।११४८) णकप्र० → अक । 'नामिनोऽकलि-हलेः' (४१३५१) लौ । 'ओदौतोऽवाव' (१।२।२४) आव ।
[ओदनस्य भोजकः] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भुक्ते = भोजकः । णक-तृचौ' (५।१।४८) णकप्र० → अक । 'लघोरुपा०' (४।३।४) गु० उ० → ओ० ।।
[विश्वस्य ज्ञाता] 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । जानातीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ । प्रथमा सि । 'ऋदुशनस्-पुरुदंशो०' (१।४।८४) सि० → डा० → आ० । 'डित्यन्त्यस्वरादे:' (२।१।११४) ऋलोपः ।
[तीर्थस्य कर्ता] करोतीति । ‘णक-तृचौ' (५।११४८) तृचप्र० →तृ । 'नामिनो गुणोऽक्डिति' (४।३१) गु० अर् ।
[उदकस्य पिबः] 'पां पाने' (२) पा । पिबतीति पिबः । ‘घा-मा-पा-ट्धे-दृशः शः' (५।११५८) शप्र० । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'श्रौति-कृवु-धिवु०' (४।२।१०८) पिबादेशः । 'लुगस्यादेत्यपदे' (२१११३) अलोपः ।
[ग्रामस्य गमनम्] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - ‘गम्लूं गतौ' (३९६) गम् । गम्यते । ‘अनट्' (५।३।१२४) अनटप्र० → अन ।
[गवां दोहः] 'दुहीक क्षरणे' (११२७) दुह । दोहनं = दोहः । 'भावा-ऽकों : (५।३।१८) घञ्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० उ० → ओ० ।
[शस्त्रेण भेत्ता] शस्त्र । तृतीया टा । भिनत्तीति भेत्ता । ‘णक-तृचौ' (५।१९४८) तृचप्र० →तु । 'लघोरुपान्त्यस्य' (४।३।४) गु० इ० → ए० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० ।
[साधु पक्ता] 'डुपची पाके' (८९२) पच् । पचतीति । ‘णकतृचौ' (५।१।४८) तृचप्र० → तृ० । 'च-जः कगम्' (२।१९८६) च० → क० ।
[कृतपूर्वी कटम कृतः(तं) पूर्वं कटोऽनेन । 'पूर्वमनेन सादेश्चन्' (७।१।१६७) इनप्र० । अवर्णवर्णस्य (७।४।६८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org