________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
अलोपः ।
[भुक्तपूर्वी ओदनम्] भुक्तः(क्तं) पूर्वमोदनोऽनेन । 'पूर्वमनेन सादेश्चेन्' (७।१।१६७) इन्प्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः ।
[अर्थस्य त्यागी ?] 'त्यजं हानौ' (१७२) त्यज् । त्यजतीत्येवंशीलः । 'युज-भुज-भज-त्यज-रञ्ज-द्विष-दुष-द्रुह-दुहाऽभ्या हनः' (५।२५०) घिनणप्र० → इन् । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धि: । 'क्तेऽनिटश्च-जोः क-गौ घिति' (४191१११) ज० → ग० ।
[सुखस्य भोगी ?] 'भुजंप् पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भुनक्तीत्येवंशीलः । 'युज-भुज-भज-त्यज-रअ-द्विषदुष-द्रुह-दुहाभ्याहनः' (५।२।५०) घिनण्प्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० उ० → ओ० । 'क्तेऽनिटश्च-जोः क-गौ घिति' (४।१।१११) ज० → ग० ।
[विषयाणां जयी] 'जिं अभिभवे' (८ ) जि । जयतीत्येवंशीलः । 'जीण-दृ-क्षि-विश्रि-परिभू-वमा-ऽभ्यमा-ऽव्यथः' (५।२।७२) इन्प्र० । 'नामिनो गुणो०(४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[वीराणां प्रसविनीति ?] 'वूडौक प्राणिगर्भविमोचने' (११०७) षू । 'षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३।९८) सू, प्रपूर्व० । प्रसूते इत्येवंशीला । 'प्रात् सू-जोरिन्' (५।२७१) इन्प्र० । 'नामिनो गुणो०' (४।३।१) गु० ओ० । 'औदौतोऽवाव्' (१।२।२४) अव् । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घः । 'दीर्घड्याब०' (१।४।४५) सिलोपः । 'नाम्नो नोऽननः' (२११।९१) नलोपः सर्वत्र ज्ञेयः ।।छ।।
द्विषो वाऽतृशः ।।२।२।८४।। [द्विषो वाऽतृशः] द्विष् षष्ठी डस् । वा प्रथमा सि । अतृश् षष्ठी डस् ।
[चौरस्य द्विषन्, चौरं द्विषन्] चौर षष्ठी डस् । चौर द्वितीया अम् । 'द्विषींक अप्रीतौ' (११२६) द्विष् । द्वेष्टीति । 'सुग-द्विषार्हः सत्रि-शत्रु-स्तुत्ये' (५२१२६) अतृश्प्र० → अत् । प्रथमा सि । 'ऋदुदितः' (११४७०) नोऽन्तः । दीर्घड्याब०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१।८९) तलोपः ।।
वैकत्र द्वयोः ।।२।२।८५।। [वैकत्र द्वयोः] वा प्रथमा सि । एकस्मिन् = एकत्र । 'सप्तम्याः' (७।२।९४) त्रप्प० →त्र । द्वि-ओस् । 'आ द्वेरः' (२।१।४१) इ० → अ० । ‘एद् बहुस्भोसि' (१।४।४) अ० → ए० । ‘एदैतोऽयाय्' (१।२।२३) अय् ।
[अजाया नेता सुघ्नम्, अजाया नेता सुघ्नस्य, अथवा अजा नेता सुघ्नस्य, अजाया नेता सुघ्नस्य] अजा षष्ठी डस् । 'आपो डितां यै-यास्-यास-याम्' (१।४।१७) यास् । ‘णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२१३।९७)नी । नयतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए० । प्रथमा सि | ‘ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) सि० → डा → आ० । 'डित्यन्त्यस्वरादेः' (२११११४) अन्त्यस्वरादिलोपः ।
[पयसो दोहको गाम्, पयसो दोहको गोः, गोर्दोहकः पयः, गोर्दोहकः पयसः] 'दुहीक क्षरणे' (११२७) दुह् । दोग्धीति दोहकः । ‘णक-तृचौ' (५।११४८) णकप्र० → अक | 'लघोरु०' (४।३।४) गु० उ० → ओ० ॥छ।।
कर्तरि ।।२।२।८६।। [कर्तरि] 'डुकंग करणे' (८८८) कृ । करोतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ० । सप्तमी ङि । ‘अझै च' (१।४।३९) अर् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org