SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४२ → उप आदेशः । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । [ उपरिष्टाद् ग्रामस्य ] ऊर्ध्व । ऊर्ध्वे देशे वसति । 'ऊर्ध्वाद् रिरिष्टातौ उपश्चास्य' (७।२।११४) रिष्टात्प्र० । अनेनैव ऊर्ध्व० उप आदेशः । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [ परस्ताद् ग्रामस्य ] पर । परस्मिन् देशे वसति । 'परा - ऽवरात् स्तात्' (७।२।११६) स्तात्प्र० । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः । [अवरस्ताद् ग्रामस्य ] अवर । अवरस्मिन् देशे वसति । 'पराऽवरात् स्तात्' (७।२।११६) स्तात्प्र० । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । [ पुरस्ताद् ग्रामस्य ] पूर्व । पूर्वस्मिन् देशे वसति । 'पूर्वा ऽवराऽधरेभ्योऽसस्तातौ पुरवधश्चैषाम्' ( ७।२।११५ ) अस्तात्प्र०, पूर्व० पुर् आदेशः । [ अवस्ताद् ग्रामस्य ] अवर । अवरस्मिन् देशे वसति । 'पूर्वाऽवरा -ऽधरेभ्योऽसस्ताती पुरवधश्चैषाम्' (७।२।११५ ) अस्तात्प्र०, अवर० अव् आदेशः । [ अधस्ताद् ग्रामस्य ] अधर । अधरस्मिन् देशे वसति । 'पूर्वाऽवरा -ऽधरेभ्योऽसस्तातौ पुरवधश्चैषाम्' (७।२।११५ ) अस्तात्प्र०, अधर० अध् आदेशः । [ पुरो ग्रामस्य ] पूर्वस्मिन् देशे वसति । 'पूर्वाऽवराऽधरेभ्योऽसस्तातौ०' (७।२।११५ ) अस्प्र० । पुर् आदेशः । [अवो ग्रामस्य ] अवरस्मिन् देशे वसति । 'पूर्वा ऽवरा-ऽधरेभ्योऽस० (७।२।११५) अस्प्र० । अव् आदेशः । [ अधो ग्रामस्य ] अधरस्मिन् देशे वसति । 'पूर्वा ऽवरा - ऽधरेभ्योऽस०' (७।२।११५) अस्प्र० । अध् आदेशः । [दक्षिणतो ग्रामस्य ] दक्षिणा । दक्षिणस्यां दिशि वसति । 'दक्षिणोत्तराच्चाऽतस्' (७।२।११७) अतस्प्र० । [ उत्तरतो ग्रामस्य ] उत्तरस्यां दिशि वसति । 'दक्षिणोत्तराच्चाऽतस्' (७/२/११७) अतस्प्र० । 'अवर्णवर्णस्य' ( ७।४।६८ ) आलोपः । [ परतो ग्रामस्य ] परा । परस्यां दिशि वसति । 'दक्षिणोत्तराच्चाऽतस्' (७।२1११७) अतस्प्र० । 'अवर्णवर्णस्य' ( ७।४।६८) आलोपः । [ अवरतो ग्रामस्य ] अवरा । अवरस्यां दिशि वसति । 'दक्षिणोत्तराच्चाऽतस्' (७।२।११७) अतस्प्र० । 'अवर्णवर्णस्य' ( ७।४।६८ ) आलोपः । [ अधराद् ग्रामस्य ] अधरस्मिन् देशे वसति । 'अधरा ऽपराच्चाऽऽत्' (७।२।११८) आत्प्र० । 'अवर्णेवर्णस्य' ( ७।४।६८) अलोपः । [दक्षिणाद् ग्रामस्य ] दक्षिणस्मिन् देशे वसति । 'अधरा ऽपराच्चाऽऽत्' (७।२।११८) आत्प्र० । 'अवर्णवर्णस्य' ( ७।४।६८) अलोपः । [ उत्तराद् ग्रामस्य ] उत्तरस्मिन् देशे वसति । 'अधरा - ऽपराच्चाऽऽत्' (७।२।११८) आत्प्र० । 'अवर्णेवर्णस्य' ( ७।४।६८ ) अलोपः । [पश्चाद् ग्रामस्य ] अपरस्मिन् देशे वसति । 'अधरा - ऽपराच्चाऽऽत्' (७।२।११८) आत्प्र० । 'पश्चोऽपरस्य दिक्पूर्वस्य चाऽऽति' (७।२।१२४) पश्च आदेशः । [दक्षिणपश्चाद् ग्रामस्य] दक्षिणा - अपरा । दक्षिणाऽपरस्यां दिशि वसति ( ७।२।११८) आत्प्र० । 'पश्चोऽपरस्य दिक्पूर्वस्य चाऽऽति' (७।२।१२४) पश्च आदेशः ॥ छ || Jain Education International For Private Personal Use Only = दक्षिणपश्चाद् । 'अधरा-ऽपराच्चाऽऽत्' www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy