SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य द्वितीयः पादः ॥ ४१ ANN Wwwanmaina [उपगोरपत्यम् अत्र जन्य-जनकसं० ।। [पशोः पादः] अत्र अवयवा-ऽवयविसं० । [वृक्षस्य शाखा] अत्र आधारा-ऽऽधेयसंधेयसं० । [क्षीरस्य विकारः] अत्र विकारि-विकारसं० । [गवां समूहः] अत्र समूहि-समूहसं० । [कुम्भस्य समीपम] अत्र समीपि-समीपसं० । [पृथिव्याः स्वामी] अत्र पाल्य-पालकसं० । स्वम् । स्वमस्याऽस्तीति स्वामी । ‘स्वामिन्नीशे' (७।२।४९) मिन्प्र० तथा आ = स्वा । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । दीर्घड्या०' (१।४।४५) सिलोपः । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः । न माषाणामश्नीयात् अत्र आश्या-ऽऽशनसं० । 'अशश् भोजने' (१५५८) अश् । सप्तमी यात् । ‘क्यादेः' (३।४।७९) श्नाप्र० → ना । 'एषामी व्यञ्जनेऽदः' (४।२।९७) आ० → ई० । [सुभाषितस्य शिक्षते] अत्र शिक्षणीय-शिक्षणसं० । [कर्तारः न ते सुखस्य जानते] अत्र ज्ञेय-ज्ञातृसं० । 'ज्ञः' (३।३।८२) इत्यनेनाऽऽत्मनेपदम् । न तस्य सायमश्नीयात] अत्र भोज्य-भोजकसं० । [अन्नस्य अस्मभ्यं नो देहि] अत्र दय-दान सं० । [अक्षाणां दीव्यति] अत्र करणाविवक्षा । [घ्नतः पृष्ठं ददाति] अत्र संपदानस्याऽविवक्षा । [नटस्य शृणोति] अत्र अपादानाऽविवक्षा । [वृक्षस्य पर्णं पतति] अत्र अपायाऽविवक्षा । [महतां विभाषते] अत्र आधाराऽविवक्षा । [अनुदरा कन्या] न विद्यते उदरं यस्याः सा = अनुदरा । 'आत्' (२।४।१८) आप् । प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । ‘समानानां०' (१।२।१) दीर्घः । [अलोमिका एडकेति न विद्यन्ते लोमिका यस्याः सा = अलोमिका । 'आत्' (२।४।१८) आप् । प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । एडक 'अजादे:' (२।४।१६) आप् । 'समानानां०' (१९२१) दीर्घः । [राज्ञः पुरुषः] अत्र सम्बन्धस्य द्विष्ठत्वेऽपि प्रधानात् पुरुषान्न भवति । द्वि स्था (२।२।२०) सूत्रवत् । द्वयोस्तिष्ठतीति । 'स्था-पा-सा त्रः कः' (५/११४२) कप० → अ । 'इडेत्-पुसि चाऽऽतो लुक' (४।३।९४) आलोपः । 'गो-ऽम्बा-5ऽम्बसव्या-ऽप-द्वि०' (२।३।३०) षत्वम् । द्विष्ठस्य भावः = द्विष्ठत्वम् । 'भावे त्व-तल' (७।१५५) त्वप्र० । तस्मिन् छ।। रि-रिष्टात्-स्तादस्तादसतसाता ।।२।२।८२।। [रिरिष्टात्स्तादस्तादसतसाता] रिश्च रिष्टाच्च स्ताच्च अस्ताच्च अस् च अतस् च आच्च = रिरिष्टात्स्तादस्तादसतसात्, तेन । . [उपरि ग्रामस्य ऊर्ध्व । ऊर्ध्वं देशे वसति । 'ऊर्ध्वाद रि-रिष्टातौ उपश्चास्य' (७।२।११४) रिप्र० । अनेनैव ऊर्ध्व० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy