________________
ANNNNNNNNNNNN
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [दूरं ग्रामात्, दूरं ग्रामस्य] दूरमित्यत्र ‘असत्त्वारादर्थात् टा-सि-ङ्यम्' (२।२।१२०) इति विशेषद्वितीया ।।छ।।
स्तोका-ऽल्प-कृच्छ्र-कतिपयादसत्त्वे करणे ।।२।२७९।। [स्तोकाऽल्पकृच्छ्रकतिपयात्] स्तोकं च अल्पं च कृच्छ्रे च 5 कतिपयं च == स्तोकाऽल्पकृच्छ्रकतिपयम, तस्मात् ।
[असत्त्वे करणे] न सत्त्वं = असत्त्वम् । 'नञत्' (३।२।१२५) न० → अ० । तस्मिन् = असत्त्वे, सप्तमी ङि । करण सप्तमी ङि । 'अवर्णस्ये०' (१।२।६) ए ।
[स्तोकाद् मुक्तः, स्तोकेन मुक्तः] 'मुच्च॒ती मोक्षणे' (१३२०) मुच् । मुच्यते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र० → त । 'च-जः क-गम्' (२।१८६) च० → क० ।
[अल्पाद् मुक्तः, अल्पेन मुक्तः] मुक्तः पूर्ववत् । [कृच्छ्राद् मुक्तः, कृच्छ्रेण मुक्तः] मुक्तः पूर्ववत् । [कतिपयाद् मुक्तः, कतिपयेन मुक्तः] मुक्तः पूर्ववत् ।
[स्तोकेन विषेण हतः] 'हनंक हिंसा-गत्योः' (११००) हन् । हन्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० →त । 'यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादेधुटि क्डिति' (४।२।५५) नलोपः । प्रथमा सि ।
[कच्छेण भोजनेन निर्विण्णः] निर्विण्ण इत्यत्र 'निर्विण्णः' (२।३।८९) इत्यनेन णत्वम् । स्तोकादीनां असत्त्ववाचित्वादिति- द्रव्यस्ये(य)व विशेषसंयोगित्वादिति शेषः ।
द्वित्व-बहुत्वासंभवे इति-एकत्वनिबन्धनैकवचनस्यापि असंभवे औत्सर्गिकमेकवचनम् । स्तोकाल्पादिशब्दानां स्तोकत्वाद्यर्थाभिधायकत्वेनासत्त्ववाचित्वात् क्रियां प्रति साधकतमत्वाभावात् करणत्वाभावे कथमनेन पञ्चमीत्याशड्रायाममीषां पूर्वाचार्यप्रसिद्धया करणत्वमाह-स्तोकस्य चेति स्तोकः ।।छ।।
अज्ञाने ज्ञः षष्ठी ।।२।२८०|| [अज्ञाने] न ज्ञानं = अज्ञानम् । 'नञत्' (३।२।१२५) न० → अ०, तस्मिन् । [ज्ञः] ज्ञा षष्ठी डस् । ‘लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः ।
[षष्टी] षष् । 'षट्-कति-कतिपयात् थट्' (७।११६२) थट्प्र० → थ । 'तवर्गस्य श्चवर्ग०' (१३१६०) थ० → ठ० । 'अणजेयेकण्-नञ्-सञ्-टिताम्' (२।४।२०) डी । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः ।
वेति निवृत्तं- भिन्नविभक्तिनिर्देशात् ।
सिर्पिषः सर्पिषोः सर्पिषां वा जानीते] 'ज्ञांश अवबोधने' (१५४०) ज्ञा । वर्त्तते । क्यादेः' (३।४७९) श्नाप्र० → ना । 'एषामी व्यञ्जनेऽदः' (४।२।९७) आ० → ई० । 'जा ज्ञा-जनोऽत्यादौ' (४२११०४) जा । 'ज्ञः' (३।३।८२) आत्मनेपदं अकर्मकत्वात् ।।छ।।
शेषे ।।२।२८१।। शेिषे] शेष सप्तमी ङि । 'अवर्णस्ये०' (११२१६) ए । [राज्ञः पुरुषः] अत्र स्वस्वामिसम्बन्धः ।
P卐 कतिपयश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org