________________
३८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
प्रपूर्व० । प्रसीदन्ति नयनमनांसि अस्मिन्निति प्रासाद: । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प० → अ । 'घज्युपसर्गस्य बहुलम्' (३।२।८६) दीर्घः । पञ्चमी डसि । 'डे-डस्योर्या-ऽऽतौ' (१।४।६) आत् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धि: । 'ईक्षि दर्शने' (८८२) ईक्ष्, प्रपूर्व० । वर्त्त० ते । ‘कर्त्तर्यनद्भ्यः०' (३।४।७१) शव् । 'अवर्णस्ये०' (१।२।६) ए ।
[आसनात् प्रेक्षते] आसन पञ्चमी ङसि । प्रेक्षते पूर्ववत् ।
[प्रासादमारुहा शेते] 'रुहं जन्मनि ।' (९९८) रुह्, आयूर्व० । आरोहणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः' क्त्वो यप्' (३।२।१५४) यप् । 'शीफू स्वप्ने' (११०५) शी । वर्त० ते । 'शीङ ए: शिति' (४।३।१०४)
[आसने उपविश्य भक्ते] 'विशंत प्रवेशने' (१४१५) विश, उपपूर्व० । उपवेशनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'भुजंप् पालना-ऽभ्यवहारयोः' (१४८७) भुज । वर्त० ते । 'रुधां स्वराच्श्नो नलुक् च' (३।४।८२) श्नप्र० → न । 'श्ना-ऽस्त्योर्लुक्' (४।२।९०) अलोपः । 'च-जः क-गम्' (२।११८६) ज० → ग० । 'अघोषे प्रथमो०' (१३५०) ग० → क० । 'म्नां धुडवर्गेऽन्त्योऽपदान्ते' (१।३।३९) न० → ङ० ।
दृशेर्वर्त्तनादिति-दृशेरिति कोऽर्थः ? दृशिसमानार्थस्य ईक्षेरित्यर्थः । अनपक्रामद्धीति-तत इन्द्रियं एतन्नैयायिकमताभिप्रायेणोक्तं, ते हि प्राप्यकारीणीन्द्रियाणि मन्यन्ते ।।छ।।
प्रभृत्यन्यार्थ-दिक्शब्द-बहिरारादितरैः ।।२।२।७५।। [प्रभृत्यन्यार्थदिकशब्दबहिरारादितरैः] प्रभृतिश्च अन्यश्च = प्रभृत्यन्यौ, प्रभृत्यन्यावर्थो(ों) येषां ते = प्रभृत्यन्यार्थाः । दिशि दृष्टाः शब्दाः = दिग(क)शब्दाः । प्रभृत्यन्यार्थाश्च दिकशब्दाश्च बहिश्च आराच्च इतरश्च = प्रभृत्यन्यार्थदिकशब्दबहिरारादितरास्तैः । 'भिस ऐस' (१।४।२) ऐस् ।
[ग्रीष्मादारभ्य] 'रभिं राभस्ये' (७८५) रभ, आङ्पूर्व० । आरभ(म्भ)णं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् → य ।
ग्रामात पूर्वस्यां दिशि वसति पूर्वा सप्तमी ङि । 'आपो डितां यै-यास-यास-याम्' (१।४।१७) याम् । 'सर्वादेर्डसपूर्वाः' (१।४।१८) डस्प्र० → अस् (डस्याम्) । 'डित्यन्त्य०' (२११११४) आलोपः । 'वसं निवासे' (९९९) वस् । वर्त्त० तिव । 'कर्त्तर्यनद्भ्यः०' (३।४।७१) शव ।
[पश्चिमो रामाद् युधिष्ठिरः] पश्चात् । पश्चाद्भवः = पश्चिमः । ‘पश्चादाद्यन्ता-ऽग्रादिमः' (६।३।७५) इमप्र० । 'प्रायोऽव्ययस्य' (७।४।६५) आत् लोपः ।
[क्रोशाल्लक्ष्यं विध्यति] 'व्यधंच ताडने' (११५७) व्यध् । वर्त्त० तिव् । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । 'ज्या-व्यधः क्डिति' (४।१८१) य्वृद् य० → इ० ।।
[प्राग् ग्रामात्] ‘अञ्चू गतौ च' (१०५) अच्, प्रपूर्व० । प्राञ्चतीति क्विप् = प्राग् । 'क्विप्' (५।१।१४८) विप्प० । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घड्याब०' (१।४।४५) सिलोपः । 'च-जः क-गम्' (२।१८६) च० → क० । 'धुटस्तृतीयः' (२११७६) क० → ग० ।
[प्रत्यग् ग्रामात्] 'अञ्चू गतौ च' (१०५) अञ्च्, प्रतिपूर्व० । प्रत्यञ्चतीति क्विप् = प्रत्यग् । शेषं पूर्ववत् । [उदग् ग्रामात] 'अञ्चु गतौ च' (१०५) अञ्च, उत्पूर्व० । उदञ्चतीति क्विप् = उदग् । शेषं पूर्ववत् । [प्राचीनं ग्रामादाम्राः] प्रागेव = प्राचीनम् । 'अदिकस्त्रियां वाऽश्चः' (७।१११०७) ईनप्र० । सामान्यभावेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org