SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य द्वितीयः पादः ।। .३५ [न त्वा तृणस्य मन्ता] मन् श्वस्तनी ता ।।छ।। हित-सुखाभ्याम् ।।२।२।६५।। [हितसुखाभ्याम हितं च सुखं च = हितसुखे, ताभ्यां = हितसुखाभ्यां, पञ्चमी भ्याम् । अत आ स्यादौ०' (१।४।१) आ । [आमयाविने आमयाविनो वा हितम आमयोऽस्याऽस्तीति आमयावी । 'आमयाद् दीर्घश्च' (७।२।४८) विन्प्र० दीर्घ आ । 'हिंट गति-वृद्धयोः' (१२९५) हि । हिनोति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । द्वि० अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । तदद्रा-ऽऽयुष्य-क्षेमा-ऽर्थाऽर्थेनाऽऽशिषि ।।२।।६।। [तद्भद्राऽऽयुष्यक्षेमाऽर्थाऽर्थेनाऽऽशिषि] ते च भद्रं च आयुष्यं च क्षेमं च अर्थश्च = तद्भद्राऽऽयुष्यक्षेमार्थाः, तद्भद्राऽऽयुष्यक्षेमार्था अर्था यस्याऽसौ तदद्वाऽऽयुष्यक्षेमार्थार्थं(र्थः), तेन = तद्वद्राऽऽयुष्यक्षेमाऽर्थाऽर्थेन । आशिष सप्तमी ङि । [हितं जीवेभ्यो भूयात्, हितं जीवानां भूयात्] 'भू सत्तायाम्' (१) भू । आशीः क्यात्प्र० → यात् । [पथ्यं मैत्राय भूयात्, पथ्यं मैत्रस्य भूयात्] पथिन् । पथोऽनपेतं = पथ्यम् । 'हृद्य-पद्य-तुल्य-मूल्य-वश्य-पथ्य-वयस्यधेनुष्या-गार्हपत्य-जन्य-धर्म्यम्' (७।१।११) पथ्यं निपातः । [भद्रमस्तु जिनशासनाय, भद्रमस्तु जिनशासनस्य] ‘असक् भुवि' (११०२) अस् । पञ्चमी तुव् → तु । [आयुष्यमस्तु चैत्राय, आयुष्यमस्तु चैत्रस्य] आयुस् । आयुरेवाऽऽयुष्यम् । 'भेषजादिभ्यष्ट्यण' (७।२।१६४) ट्यणप्र० →य | 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । यद्वा आयुः प्रयोजनमस्य । 'स्वर्ग-स्वस्तिवाचनादिभ्यो०' (६।४।१२३) यप्र० । [निरामयं भूयात् साधुभ्यः, निरामयं भूयात् साधूनाम्] आमयस्याभावः । 'अमव्ययीभावस्याऽतो०' (३।२।२) अम् । [कार्यं भूयात् मैत्राय, कार्यं भूयात् मैत्रस्य] 'डुकंग करणे' (८८८) कृ । क्रियते इति कार्यम् । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) ध्यणप० → य । 'नामिनोऽकलि-हलेः' (४१३५१) वृद्धिः आर् । तद्ग्रहणमिति-तर्हि प्रागप्यर्थग्रहणमस्तु, सत्यम्-तदर्थानामाशिषि नियमार्थमिदम् ॥छ।। परिक्रयणे ।।२।२१६७।। [परिक्रयणे] 'डुक्रींग्श् द्रव्यविनिमये' (१५०८) क्री, परिपूर्व० । परिक्रीयते - नियतकालं स्वीक्रियते येन तत् = परिक्रयणम् । 'अनट्' (५।३।१२४) अनटप० → अन । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । 'रघुवर्णान्नो ण०' (२।३।६३) न० → ण, तस्मिन् । शताय परिक्रीतः, शतेन परिक्रीतः] 'डुक्रींगश् द्रव्यविनिमये' (१५०८) क्री, परिपूर्व० । परिक्रीयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । प्रथमा सि ।।छ।। शक्तार्थ-वषड़-नमः-स्वस्ति-स्वाहा-स्वधाभिः ।।२।२।६८।। [शक्तार्थवषड़नमःस्वस्तिस्वाहास्वधाभिः] शक्तोऽर्थो येषां ते = शक्तार्थाः । शक्तार्थाश्च वषट् च नमश्च स्वस्तिश्च स्वाहाश्च स्वधाश्च = शक्तार्थवषड़नमःस्वस्तिस्वाहास्वधा, ताभिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy