SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । अतसमासान्तः । 'नोऽपदस्य तद्धिते' (७।४।६१) इनलोपस्तेन । स्त्रियं गच्छति] स्त्री द्वितीया अम् । 'वाऽम्-शसि' (२।१।५५) इय् । 'गम्लुं गतौ' (३९६) गम् । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'गमिषद्यमश्छः' (४।२।१०६) म० → छ । 'स्वरेभ्यः' (१।३।३०) द्वित्वम् । 'अघोषे प्रथमोऽशिट:' (११३५०) छ० → च० । [ग्रामस्य गन्ता] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीमृ (३९५) - 'गम्लं गतौ' (३९६) गम् । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'गमिषद्यमश्छः ' (४।२।१०६) म० → छ० । 'स्वरेभ्यः' (१।३।३०) द्वित्वम् । 'अघोषे प्रथमो०' (१।३।५०) छ० → च० । गच्छतीति गन्ता । ‘णक-तृचौ' (५।१।४८) तृच्प्र० →तृ । प्रथमा सि । 'ऋदुशनस-पुरुदंशोऽनेहसश्च सेहः' (१।४।८४) सि० → डा० → आ० । 'डित्यन्त्य०' (२११११४) अन्त्यस्वरादिलोपः ||छ।। मन्यस्याऽनावादिभ्योऽतिकुत्सने ।।२।२।६४।। [मन्यस्य बुधिं (१२६२) - ‘मनिंच ज्ञाने' (१२६३) मन् । मन्यते = मन्यम् । ‘य एच्चातः' (५।१।२८) यप्र०, तस्य = मन्यस्य, षष्ठी डस् । 'टा-डसोरिन-स्यौ' (१।४।५) स्य । [अनावादिभ्योऽतिकुत्सने नौरादिर्येषां ते = नावादयः, न नावादयोऽनावादयः । 'नञत्' (३।२।१२५) न० → अ०, तेभ्यः । 'सो रुः' (२११७२) र० । 'अतोऽति रोरुः' (१।३।२०) र० → उ० । 'अवर्णस्येवर्णादिनै०' (१९२६) ओ । 'एदोतः पदान्तेऽस्य लुक' (१।२।२७) अलोपः । अतीव कुत्सनं = अतिकुत्सनम्, तस्मिन् = अतिकुत्सने, सप्तमी ङि । 'अवर्णस्ये०' (१।२।६) ए । [न त्वा तृणाय मन्ये, न त्वा तृणं मन्ये] न प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । युष्मद् द्वि० अम् । 'अमा त्वा-मा' (२।१।२४) त्वा । तृण चतुर्थी डे । 'डे-डस्योर्याऽऽतौ' (१।४।६) य० । 'अत आ स्यादौ०' (१।४।१) आ० । । 'समानादमोऽतः' (१।४।४६) अलोपः । बुधिं (१२६२) - ‘मनिंच ज्ञाने' (१२६३) मन । वर्त्त० ए । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । [न त्वा शुने मन्ये, न त्वा श्वानं मन्ये] श्चन् चतुर्थी डे । 'श्वन्-युवन्-मघोनो डीस्याद्यघुट्स्वरे व उः' (२।१।१०६) व० → उ० । 'मनिंच ज्ञाने' (१२६३) मन् । वर्त्त० ए । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । न त्वा तृणं चिन्तयामि] 'चितुण स्मृत्याम्' (१६४५) चित् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । वर्त्त० मिव् । 'कर्त्तर्यनद्भ्यः०' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । 'म-व्यस्याः ' (४।२।११३) अ० → आ० । [न त्वा तृणं मन्चे] युष्मद् द्वितीया अम् । 'अमा त्वा-मा' (२११।२४) त्वा आदेशः । 'मनूयि बोधने' (१५०७) मन् । वर्त्त० ए । 'कृग-तनादेरुः' (३।४।८३) उप्र० । 'इवर्णादे०' (१२।२१) वत्वम् ।। [त्वां तृणं मन्ये] युष्मद द्वितीया अम् । 'लोकात्' (१1१।३) अद् अग्रे विश्लेषियइ । 'त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन' (२।१।११) त्व आदेशः । 'अमौ मः' (२।१।१६) म० । युष्मदस्मदोः (२।१।६) द० → आ० । 'समानानां०' (१।२।१) दीर्घः । मन् वर्त्त० ए । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । [हरिमपि अमंसत तृणाय] मन् अद्यतनी त(अन्त) । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'अड् धातोरादि०' (४।४।२९) अडागमः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy