________________
अथ द्वितीयाsध्यायस्य द्वितीयः पादः ।।
[इज्याये व्रजति] 'यजीं देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । यष्टुं = इज्या | 'आस्यटि-व्रज्-यजः क्यप्' (५।३।९७) क्यप्प्र ० य । 'यजादि-वचेः किति' (४।१।७९) वृद् य० इ० । 'आत्' (२।४।१८) आप् । चतुर्थी ङे । 'आपो डितां ये-यास् यास् - याम्' (१।४।१७ ) यै । धृज (१३० ) - धृजु (१३१) - ध्वज (१३२) - ध्वजु (१३३) - धज (१३४) - धजु (१३५) वज (१३६) 'व्रज गती' (१३७) व्रज् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः ०' (३।४।७१) शव् ।
-
[ पाचकस्य व्रज्या] पक्ष्यतीति पाचकः । क्रियायां क्रियार्थायां तुम्-णकच् भविष्यन्ती' (५।३।१३ ) णकच्प्र० अक । ‘ञ्णिति' (४।३।५० ) उपान्त्यवृद्धिः । च-जः क- गम्' (२1११८६) च० क०, तस्य । 'व्रज गतौ ' (१३७) व्रज् । व्रजनं = व्रज्या । 'आस्यटि-व्रज्-यजः क्यप्' (५।३।९७) क्यप्प्र ० य । 'आत्' (२।४।१८) आप्प्र० → आ ।
स्य ।
[गोदायस्य परिसर्या] गां दास्यतीति गोदायकः । ' क्रियायां क्रियार्थायां तुम्-णकच् भविष्यन्ती' (५।३।१३) णकच्प्र० → अक । ‘आत ऐः कृञ्ञ' (४।३।५३) आ० ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय्, तस्य । 'सृ गतौ' (२५ ) सृ, परिपूर्व० । परिसरणं = परिसर्या । 'परेः सृ-चरेर्यः' (५।३।१०२) यप्र० । 'नामिनो गुणो० ' ( ४।३।१) गु० अर् । 'आत्’ (२।४।१८) आपप्र० । प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः ||छ ||
[गम्यस्य ] गम् । गमनं
३३
गम्यस्याऽऽप्ये ||२।२१६२ ||
= गम्यम् । 'य एच्चातः' (५।१।२८) यप्र० । षष्ठी डस् । 'टा- डसोरिन -स्यौ' (१।४।५)
[आप्ये] 'आप्लृट् व्याप्ती' (१३०७ ) आप् । आप्यते = आप्यम्, तस्मिन् आप्ये, सप्तमी ङि । 'अवर्णस्ये० '
(१।२।६) ए ।
=
[ एधेभ्यो व्रजति] एध चतुर्थी भ्यस् । एद् बहुस्भोसि ' (१।४।४ ) ए । 'व्रज गतौ ' (१३७) व्रज् । वर्त्त० तिव् । ‘कर्त्तर्यनद्भ्यः शव् ́ (३।४।७१) शव् ।
[एधानाहर्तुं व्रजति] एध द्वितीया शस् । 'शसोऽता सश्च नः पुंसि ' (१।४।४९) दीर्घः स० न० । 'हंग् हरणे' (८८५) ह, आड्पूर्व० । आहरणाय = • आहर्तुम् । 'क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'नामिनो गुणो० ' ( ४।३।१) अर् । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः । व्रजति पूर्ववत् ।
Jain Education International
[प्रविश पिण्डीं द्वारम्] ‘विशंत प्रवेशने ' (१४१५) विश्, प्रपूर्व० । पञ्चमी हि । 'तुदादे: श: ' ( ३।४।८१) शप्र० । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलोपः ॥ छ ||
गतेर्नवाऽ नाप्ते || २ |२|६३ ॥
[गतेर्नवाऽनाप्ते] गति पञ्चमी इसि । 'डित्यदिति' (१।४।२३) इ०
ए० । एदोद्भ्यां ङसि - डसो रः ' (१।४।३५ ) र० | नवा प्रथमा सि । न आप्तमनाप्तम् । नञत्' ( ३।२।१२५) न० → अ०, तस्मिन् ।
[विप्रनष्टः पन्थानं पथे वा गच्छति ] 'नशौच् अदर्शने' (१२०२ ) नश्, वि-प्रपूर्व० । विप्रनश्यति स्म । 'गत्यर्था - Sकर्मक- पिब-भुजेः' (५1१1११) क्तप्र० त । 'यज- सृज-मृज० ' (२।१।८७) श० ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६० ) त० → ट० । प्रथमा सि । 'सो रुः' (२।१।७२ ) २० । पथिन् द्वितीया अम् । 'ए: ' (१।४।७७ ) इ०
आ० । पथिन्
चतुर्थी ङे । ' इन् डीस्वरे लुक्' (१।४।७९) इन्लोपः ।
[उत्पथेन पन्थानं पथे वा गच्छति ] उत्-पथिन् । उत्क्रान्तः पन्थानं = उत्पथः । 'ऋक्-पूः - पथ्यपोऽत्' ( ७।३।७६)
P5 न आप्तः = अनाप्तः ।
For Private Personal Use Only
www.jainelibrary.org