________________
अथ द्वितीयाऽध्यायस्य द्वितीयः पादः ।।
३१
[गृणाऽऽख्यातरि] गृणा तृतीया टा । 'लुगाऽऽतोऽनापः' (२191१०७) आलोपः । ‘ख्यांक प्रथने' (१०७१) ख्या, आयूर्व० । आख्यातीति आख्याता । ‘णक-तृचौ' (५।१।४८) तृच्प्र०, तस्मिन् = आख्यातरि, सप्तमी ङि । 'अझै च' (१।४।३९) अर् ।
[आचार्याय प्रतिगृणाति] 'गृश् शब्दे' (१५३८) गृ, प्रतिपूर्व० । वर्त्तः तिव् । 'क्यादेः' (३।४७९) श्नाप्र० → ना । 'प्वादेर्हस्वः' (४।२।१०५) ह्रस्वत्वम् । 'रघुवर्णान्नो ण०' (२।३।६३) न० → ण ।
[आचार्यायाऽनुगृणाति] ‘गृश् शब्दे' (१५३८) गू, अनुपूर्व० । वर्त्तः तिव् । शेषं पूर्ववत् ।।छ।।
यद्वीक्ष्ये राधीक्षी ।।२।२५८।। [यद्वीक्ष्ये] यद् 'ईक्षि दर्शने' (८८२) ईक्ष, विपूर्व० । विशेषेणेक्ष्यते यत् तद् वीक्ष्यम् । 'य एच्चातः' (५।१।२८) यप्र० । यस्य वीक्ष्यं = यद्वीक्ष्यम, तस्मिन् = यद्वीक्ष्ये, सप्तमी ङि । 'अवर्णस्ये०' (१२।६) ए ।
[राधीक्षी] राधिश्च ईक्षिश्च = राधीक्षी । प्रथमा औ । 'औरीः' (१।४५६) ई (?) ('इदुतो०' (१।४।२१) ई) ।
[मैत्राय राध्यति] मैत्र चतुर्थी डे । ‘राधंच् वृद्धौ' (११५६) राध् । वर्त० तिव् । 'दिवादे:०' (३।४।७२) श्यप्र० → य ।
[मैत्रायेक्षते] मैत्र चतुर्थी ङे । 'ईक्षि दर्शने' (८८२) इक्ष् । वर्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[ईक्षितव्यं परस्त्रीभ्यः स्वधर्मो रक्षसामयम्] ईक्षा(क्ष)ते = ईक्षितव्यम् । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'स्ताद्यशितोऽत्रोणादेरिट' (४/४।३२) इट् । परेषां स्त्रियः = परस्त्रियस्ताभ्यः ।
[मैत्राय राधयति] 'राधं संसिद्धौ' (१३०४) राध् । राध्नुवन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे०' (३।४।२०) णिग्प्र० → इ । वर्त्त तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणो०' (४।३।१) गु० ए । 'एदैतो०' (१।२।२३) अय् ।
[मैत्राय साधयति] राधं (१३०४) - ‘साधंट संसिद्धौ' (१३०५) साध् । साध्नुवन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे०' (३।४।२०) णिग्प० → इ । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणो०' (४।३।१) गु० ए। 'एदैतोऽयाय्' (१।२।२३) अय् ।।छ।।
उत्पातेन ज्ञाप्ये ।।२।२१५९।। [उत्पातेन] 'पत्लु गतौ' (९६२) पत्, उत्पूर्व० । उत्पतनमुत्पातः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । _ 'ञ्णिति' (४३५०) उपान्त्यवृद्धिः । तृतीया टा । 'टा-डसोरिन-स्यौ' (१।४।५) इन । 'अवर्णस्ये०' (१२।६) ए ।
ज्ञाप्ये] 'ज्ञांश अवबोधने' (१५४०) ज्ञा । जानन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिम्प० । 'अर्तिरी-ब्ली-ही-क्नूयि-क्ष्माय्यातां पुः' (४।२।२१) पोऽन्तः । ज्ञाप्यते = ज्ञाप्यम् । ‘य एच्चातः' (५।१।२८) यप्र० । 'णेरनिटि' (४।३।८३) णिग्लोपस्तस्मिन् = ज्ञाप्ये ।
बाताय कपिला विद्युदातपायाऽतिलोहिनी ।
पीता वर्षाय विज्ञेया, दुर्भिक्षाय सिता भवेत ।।१।। [विज्ञेया] 'ज्ञांश् अवबोधने' (१५४०) ज्ञा, विपूर्व० । विज्ञायते = विज्ञेया । ‘य एच्चातः' (५।१।२८) यप्र०, आ → ए० ।
9 क्रियारत्नसमुच्चये - ‘ख्यांक प्रकथने' - प्रकटने इत्यन्ये । धातुपारायणे - ‘ख्यांक प्रथने' प्रकथने इत्यन्ये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org