________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
रुचिकृप्यर्थधारिभिः प्रेयविकारोत्तमणेषु ।।२।२।५५।। [रुचिकृप्यर्थधारिभिः] रुचिश्च कृपिश्च = रुचिकृपी, रुचिकृपी अर्थो(ों) येषां ते = रुचिकृप्याः , रुचिकृप्याश्च धारिश्च = रुचिकृप्यर्थधारयस्तैः = रुचिकृप्यर्थधारिभिः ।
[प्रेयविकारोत्तमणेषु] प्रेयश्च विकारश्च उत्तमर्णश्च = प्रेयविकारोत्तमर्णास्तेषु = प्रेयविकारोत्तमणेषु, सप्तमी सुप् । 'एद् बहुस्भोसि' (१।४।४) ए । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[जिनदत्ताय रोचते धर्मः] जिन 'डुदांग्क् दाने' (११३८) दा । जिना एनं देयासुर्जिनदत्तः । “तिक्कृतौ नाम्नि' (५।१७१) तिप्र०? (क्तप्र०) । 'दत्' (४।४।१०) । दत् आदेशस्तस्मै । 'रुचि अभिप्रीत्यां च' (९३८) रुच् । वर्त्त० ते । 'कतर्यनद्भ्यः०' (३।४।७१) शव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[गुरुदत्ताय स्वदते दधि] गुरु 'डुदांग्क् दाने' (११३८) दा | गुरव एनं देयासुर्गुरुदत्तः । “तिक्कृतौ नाम्नि' (५।१७१) तिप्र० (?) (क्तप्र०) । 'दत्' (४।४।१०) दत् आदेशस्तस्मै । 'ष्वदि आस्वादने' (७२९) ष्वद् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्वद् । वर्त० ते । कर्त्तर्यनद्भ्यः० (३।४।७१) शव् ।
मूत्राय कल्पते यवागूः] 'कृपौङ् सामर्थ्य' (९५९) कृप । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'ऋ-र लु-लं कृपोऽकृपीटादिषु' (२।३।९९) र० → ल० । 'युक् मिश्रणे' (१०८०) यु । यूयते = मिश्रते पानीयादिनेति यवागूः । 'योरागूः' (उणा० ८५०) आगूप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ० । 'ओदौतोऽवाव्' (१।२।२४) अव् ।
[उच्चाराय संपद्यते यवान्नम्] ‘पदिच् गतौ' (१२५७) पद्, संपूर्व० । वर्त० ते । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य ।
[चैत्राय शतं धारयति] 'धृग् धारणे' (८८७) धृ । धरन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे०' (३।४।२०) णिग्प० → इ। 'नामिनोऽकलि-हलेः' (४३५१) वृ० आर् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः०' (३।४।७१) शव् । 'नामिनो गुणो०' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।।छ।।
प्रत्याङः श्रुवाऽर्थिनि ||२।२५६॥
[प्रत्याङः] प्रतिश्च आङ् च = प्रत्याङ्, तस्मात् = प्रत्याङः, पञ्चमी डसि ।
[श्रुवाऽर्थिनि] श्रु तृतीया टा । 'संयोगात्' (२।१५२) उव् । अर्थो विद्यते यस्याऽसौ । ‘अर्था-ऽर्थान्ताद् भावात्' (७।२।८) इन्प्र० । 'अवर्णवर्णस्य' (७।४६८) अलोपस्तस्मिन् ।
[द्विजाय गां प्रतिशृणोति] 'श्रृंट् श्रवणे' (१२९६) श्रु, प्रतिपूर्व० । वर्त्तः तिव् । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० → नु । 'श्रौति-कृवु-धिवु०' (४।२।१०८) शृ । 'उ-श्नोः' (४।३।२) गु० ओ । 'रघुवर्णान्नो ण०' (२।३।६३) न०→ण० । [द्विजाय गामाशृणोति] 'श्रृंट् श्रवणे' (१२९६) श्रु, आयूर्व० । वर्त० तिव् । शेषं पूर्ववत् ॥छ।।
प्रत्यनोगुणाऽऽख्यातरि ।।२।२।५७।।
[प्रत्यनोर] प्रतिश्च अनुश्च = प्रत्यनु, तस्मात् = प्रत्यनोः, पञ्चमी डसि । 'डित्यदिति' (१।४।२३) ओ । 'एदोद्भ्यां डसि-डसो रः' (१।४।३५) र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org