SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य द्वितीयः पाद: ।। दामः संप्रदानेऽधर्म्य आत्मने च ।।२।२।५२ ।। [दामः] दाम् पञ्चमी डसि(?) (षष्ठी डस्) । [संप्रदाने] 'डुदांग्क दाने' (११३८) दा, संपूर्व० । संप्रदीयते यस्मै तत् = संप्रदानं, तस्मिन् । 'बहुलम्' (५।१।२) अनटप्र० → अन । [अधयें] न धर्म्य = अधऱ्या, तस्मिन् । [आत्मने च] आत्मार्थं पदं = आत्मनेपदम् । 'ते लुग्वा' (३।२।१०८) पदलोपः । प्रथमा सि । सूत्रत्वात् सिलोपः । च प्रथमा सि । 'अव्ययस्य (३।२७) सिलोपः । [दास्या संप्रयच्छते] दासी तृतीया टा । 'दां दाने' (७ ) दा, संप्रपूर्व० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'श्रौति-कृवु-धिवु-पा-घ्रा०' (४।२।१०८) यच्छ आदेशः । दास्य संददाति] दासी चतुर्थी डे । 'स्त्रीदूतः' (१।४।२९) दै० → ऐ० । 'डुदांग्क् दाने' (११३८) दा, संपूर्व० । वर्त० तिव् । 'हवः शिति' (४।१।१२) दा द्विर्वचनम् । 'हूस्वः' (४।१।३९) ह्रस्वत्वम् ।।छ।। ॥ इति तृतीयाप्रकरणं समाप्तं दशभिः सत्रैः ॥ चतुर्थी ।।२।२।५३॥ [चतुर्थी] चतुर्णां (चतसृणां) पूरणी = चतुर्थी । 'चतुरः' (७।१।१६३) थटप्र० → थ । 'अणजेयेकण्-नञ्-सञ्टिताम्' (२।४।२०) डीप्र० । 'अस्य डयां लुक' (२।४।८६) अलोपः । [द्विजाय गां ददाति द्विज चतुर्थी उ । 'डे-डस्योर्याऽऽतौ' (१।४।६) य । 'अत आ स्यादौ जस्-भ्याम-ये' (१।४।१) अ० → आ० । गो द्वि० अम् । 'आ अम्-शसोऽता' (१।४७५) आ । [शिष्याभ्यां धर्ममुपदिशति] 'शासूक् अनुशिष्टौ' (१०९५) शास् । शिष्यते इति शिष्यः । 'दृ-वृग-स्तु-जुषेति-शासः' (५।११४०) क्यप्प्र० → य । 'इसासः शासोऽङ्-व्यञ्जने' (४।४।११८) शिस् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । ताभ्यां = शिष्याभ्याम् । अत आ स्यादौ०' (१।४।१) आ । [पत्ये शेते] पति चतुर्थी डे । 'शी स्वप्ने' (११०५) शी । वर्त० ते । ‘शीङ ए: शिति' (४।३।१०४) ए । [राज्ञे विज्ञपयति राजन् चतुर्थी डे । 'अनोऽस्य' (२191१०८) अलोपः । 'ज्ञांश अवबोधने' (१५४०) ज्ञा, विपूर्व० । विजानन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । अति-री-ब्ली०' (४।२।२१) पोऽन्तः । 'मारण-तोषण-निशाने ज्ञश्च' (४।२।३०) ह्रस्वः । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'नामिनो गुणो०' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।।छ।। तादर्से ।।२।२५४।। [तादर्थ्य] तद् - अर्थ । तस्मा इदं = तदर्थम् । तदर्थस्य भावः = तादर्थ्यम् । 'पति-राजान्तगुणाङ्ग-राजादिभ्यः कर्मणि च' (७१११६०) ट्यणप्र० → य । 'वृद्धि स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलोपस्तस्मिन् = तादर्थ्ये । __ [अवहननायोलूखलम्] ‘हनंक हिंसा-गत्योः' (११००) हन्, अवपूर्व० । अवहन्यते । ‘अनट्' (५।३।१२४) अनट्प्र०, तस्मै छ। Jain Education International onal For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy