________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
प्रसितोत्सुका-ऽवबद्धैः ।।२।२।४९।। [प्रसितोत्सुकाऽवबद्धैः] प्रसितश्च उत्सुकश्च भ अवबद्धश्च = प्रसितोत्सुकाऽववद्धास्तैः ।
[केशैः प्रसितः, केशेषु प्रसितः] 'पिंगट् बन्धने' (१२८७) षि । 'षः सोऽष्टयै-ष्टिव-ष्वष्कः' (२।३।९८) सि, प्रपूर्व० । प्रसिनोति स्म । 'गत्यर्थाऽकर्मक-पिव-भुजेः' (५।१।११) क्तप्र० → त ।
[गृहेणोत्सुकः, गृहे उत्सुक] उद्गतं सुष्ठु मनोऽस्याऽसौ उत्सुकः । 'उदुत्सोरुन्मनसि' (७।१।१९२) कप्र० ।
[केशैरवबद्धः, केशेष्ववबद्धः] 'वन्धंश् बन्धने' (१५५२) बन्ध् । बध्नाति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । 'अधश्चतुर्थात् त-थोर्धः' (२।१७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० । प्रथमा सि ॥छ।।
व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम ।।२।२५०|| [व्याप्ये] 'आप्लृट् व्याप्तौ' (१३०७) आप, विपूर्व० । विशेषेणाऽऽप्यते = प्राप्यते इति व्याप्यम् । शकि-तकि-चतियति-शसि-सहि-यजि-भजि-पवर्गात' (५।१।२९) यप्र० । तस्मिन् ।
[द्विद्रोणादिभ्यः] द्विद्रोण आदिर्येषां ते = द्विद्रोणादयस्तेभ्यः ।
[वीप्सायाम्] 'आप्लृट् व्याप्तौ' (१३०७) आप्, विपूर्व० । विशेषेणाऽऽप्तुमिच्छा वीप्सा । 'तुमर्हादिच्छायां सन्नतत्सनः (३।४।२१) सन्प्र० । 'ज्ञप्यापो ज्ञीपीप्, न च द्वि: सि सनि (४।१।१६) ईप् । 'समानानां०' (१।२।१) दीर्घः । वीप्सायां = वीप्सा । 'शंसि-प्रत्ययात्' (५।३।१०५) अप्र० । 'अतः' (४।३।८२) अलोपः । 'आत्' (२।४।१८) आप् । सप्तमी ङि । 'आपो डितां यै-यास्-यास-याम्' (१।४।१७) याम् ।
[द्विद्रोणेन धान्यं क्रीणाति, द्विद्रोणं द्विद्रोणं क्रीणाति द्वि-द्रोण । द्वौ द्रोणौ मानमस्य तद् द्विद्रोणं, तेन । 'मानम्' (६।४।१६९) इकणप्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकणलोपः । द्वौ द्रौणौ मानमस्य तद् द्विद्रोणम् । द्वि० अम् । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'वीप्सायाम्' (७।४८०) द्विद्रोणं द्वित्वम् । 'डुक्रींग्श् द्रव्यविनिमये' (१५०८) क्री । वर्त० तिव् । 'क्यादेः' (३।४।७९) श्नाप्र० । 'रघुवर्णान्नो ण०' (२।३।६३) न० →ण० ।
[पञ्चकेन पशून क्रीणाति, पञ्चकं पञ्चकं क्रीणाति] पञ्चन् । पञ्चेति संख्यामानमस्य । 'संख्यायाः संघ-सूत्र-पाठे' (६।४।१७१) इति यथाविहितः । “संख्या-ऽतेश्चाऽशत्-ति-ष्टेः कः' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः । तेन, तम् । वीप्सायाम्' (७।४।८०) द्विवचनम् । पशु द्वितीया शस् । 'शसोऽता सश्च नः पुंसि' (१।४।४९) दीर्घः - स० → न० ।।छ।।
समो ज्ञोऽस्मृतौ वा ।।२।२।५१।। [समो ज्ञोऽस्मृतौ वा सम् पञ्चमी डसि । ज्ञा षष्ठी डस् । 'लुगाऽऽतोऽनापः' (२।११०७) आलोपः । स्मरणं = स्मृतिः । न स्मृतिरस्मृतिः । 'नजत्' (३।२।१२५) न० → अ०, तस्यां = अस्मृतौ, सप्तमी ङि । वा प्रथमा सि ।
[मात्रा संजानीते, मातरं संजानीते मातृ तृतीया टा । 'इवर्णादेरस्वे स्वरे य-व-र-लम्' (१।२।२१) र० । मातृ द्वितीया अम् । ‘अझै च' (१।४।३९) अर् । 'ज्ञांश् अवबोधने' (१५४०) ज्ञा संपूर्व० । वर्त० ते । ‘क्यादेः' (३।४।७९) श्नाप्र० → ना । एषामी व्यञ्जनेऽदः (४।२।९७) आ० → ई० । 'जा ज्ञा-जनोऽत्यादौ' (४।२।१०४) जा ।।छ।।
P卐
अववध्यते स्म । क्तप० । 'अधश्चतुर्थात् त-थोर्धः' (२।१७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थ' (१।३।४९) ध० → द०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org