________________
अथ द्वितीयाऽध्यायस्य द्वितीयः पादः ॥
यद्वेदैस्तद्वादाख्या ।।२।२।४६।। [यदेदैस्तद्वदाख्या यस्य भेदिनो भेदाः = यद्वेदास्तैः, ते भेदा विद्यन्ते यस्य सः = तद्वान् । 'तदस्याऽस्त्य०' (७।२।१) मतुप्र०। 'मावर्णान्तोपान्ता०' (२।१।९४) म० → व० । तद्वतोऽर्थस्याऽऽख्या = तद्वदाख्या । प्रथमा सि । दीर्घड्याव०' (१।४।४५) सिलोपः ।
[अक्ष्णा काणः] अक्षि । तृतीया टा । ‘दध्यस्थिसक्थ्यक्ष्णोऽन्तस्याऽन्' (१।४।६३) अन् । 'अनोऽस्य' (२।१।१०८) अलोपः ।
[प्रकृत्या दर्शनीयः] 'दृशुं प्रेक्षणे' (४९५) दृश् । दृश्यते = दर्शनीयः । 'तव्या-ऽनीयौ' (५।१।२७) अनीयप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
[गोत्रेण काश्यपः] कश्यप । कश्यस्याऽपत्यं वृद्धं = काश्यपः । 'विदादेर्वद्धे (६११४१) अञप्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ।
[अक्षि काणं पश्य] अक्षि । द्वि० अम् । 'अनतो लुप्' (१।४।५९) अम्लोपः । ‘दृशुं प्रेक्षणे' (४९५) दृश् । पञ्चमी हि । 'श्रौति-कृवु-धिवु०' (४।२।१०८) पश्य आदेशः । 'अतः प्रत्ययाल्लुक' (४।२।८५) हिलोपः ।छ।।
___ कृताद्यैः ।।२।२।४७।। [कृताद्यैः] कृत्(त) आद्यो येषां ते = कृताद्यास्तैः । [कृतं तेन] कृतं । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः ।।छ।।
काले भान्नवाऽऽधारे ।।२।२।४८।। [काले भान्नवाऽऽधारे काल सप्तमी ङि । भ पञ्चमी उसि । नवा प्रथमा सि । 'धुटस्तृतीयः' (२।१७६) त० → द० । 'तृतीयस्य पञ्चमे' (१९३१) द० → न० । आधार सप्तमी ङि ।
[पुष्येण पायसमश्नीयात्, पुष्ये पायसमश्नीयात् पुष्य । पुष्येण चन्द्रयुक्तेन युक्तः कालोऽपि पुष्यः । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० - 'लुप् त्वप्रयुक्ते' अण्लोपः । पयस् । पयसा(सि) संस्कृतं = पायसम् । 'संस्कृते भक्ष्ये' (६।२।१४०) अण्प्र० । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अशश् भोजने' (१५५८) अश् । सप्तमी यात् । ‘क्यादेः' (३।४।७९) श्नाप्र० → ना । ‘एषामी व्यञ्जनेऽदः' (४।२।९७) ई० ।
[चित्रासु जाता चित्रा माणविका तस्यां चित्रायामास्ते मनोरपत्यं मूढं = माणवः । 'माणवः कुत्सायाम्' (६।१।९५) अणप्र०निपातः । माणव एव = माणवकः । 'यावादिभ्यः कः' (७।३।१५) स्वार्थे कप्र० । 'आत्' (२।४।१५) आप्प्र० → आ । 'अस्याऽयत्-तत्-क्षिपकादीनाम्' (२।४।१११) इ ।
तिलपुष्पेषु यत् क्षीरम्, तिलच्छेदेषु यद् दधि] तिलानां पुष्पाणि = तिलपुष्पाणि, तेषु । तिलानां छेदाः = तिलच्छेदास्तेषु ।
[अद्य पुष्यं विद्धि] 'विदक ज्ञाने' (१०९९) विद् । पञ्चमी हि । 'हु-धुटो हेर्धिः' (४।२८३) हि० → धि० । 'तृतीयस्तृतीय-चतुर्थे' (१३।४९) द० → द० ।।छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org