________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
हेतु-कर्तृ-करणेत्थम्भूतलक्षणे ।।२।२।४४।। [हेतुकर्तृकरणेत्थम्भूतलक्षणे] इत्थं 'भू सत्तायाम्' (१) भू । इत्थम्भवति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१११) क्तप्र० → त । इत्थम्भूतस्य लक्षणमिति विग्रहः स लक्ष्यते येनेति त्वर्थकथनमात्रं । हेतुश्च कर्ता च करणं च इत्थम्भूतलक्षणं च = हेतुकतृकरणेत्थम्भूतलक्षणं, तस्मिन् ।
[अपि भवान् कमण्डलुना छात्रमद्राक्षीत्] अपि प्रथमा सि । 'अव्ययस्य (३।२।७) सिलोपः । ‘मडुण् भूषायाम्' (१६३३) मण्ड्, कपूर्व० । केन = पानीयेन मण्ड्यते इति कमण्डलुः । ‘गूहलु-गुग्गुलु-कमण्डलवः' (उणा० ८२४) आलुप्र०कमण्डलुनिपातः, तेन । छदण अपवारणे' (१९६४) छद् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । छादयत्युपाध्यायस्य दोषानिति छात्रः । 'हु-या-मा-श्रु-वसि-भसि-गु-वी-पचि-वचि-धृ-यम्यमि-मनि-तनि-सदि-छादि-क्षि-क्षदि-लुपि-पति-धूभ्यस्त्रः' (उणा० ४५१) त्रप्र० । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'अघोषे प्रथमो०' (१३५०) द० → त० । द्वितीया अम् । 'समानादमोऽतः (१।४।४६) अलोपः । 'दृशुं प्रेक्षणे' (४९५) दृश् । अद्यतनी दि । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । 'अः सृजि-दृशोऽकिति' (४।४।१११) अकारागमुः । ‘इवर्णादे०' (१।२।२१) र० । 'व्यञ्जनानामनिटि' (४।३।४५) वृद्धिः आ । 'यज-सृज-मृज०' (२/१९८७) श० →ष० । 'ष-ढोः कस्सि' (२।१६२) ष० → क० । 'नाम्यन्तस्था०' (२।३।१५) स० → ष० । 'अड् धातोरादि०' (४।४।२९) अडागमः । [धान्येनाऽर्थी] अर्थोऽस्याऽस्तीति । 'अर्था-ऽर्थान्ताद् भावात्' (७।२८) इन्प० । 'अवर्णे०' (७।४।६८) अलोपः ।।छ।।
सहार्थे ।।२।२।४५॥ [सहाथै]55 सहस्याऽर्थः = सहार्थस्तस्मिन् ।
[पुत्रेण सहाऽऽगतः] अम (३९२) - द्रम(३९३) - हम्म (३९४) - मीम (३९५)- ‘गम्लूं गतौ' (३९६) गम्, आङपूर्व० । आगच्छति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० →त । 'यमि-रमि-नमि-गमि-हनि-मनि-वनतितनादेधुटि क्डिति' (४।२।५५) मलोपः ।।
[पत्रेण सह गोमान] गो । गावो विद्यन्ते यस्याऽसौ । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप० → मत् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । ‘अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घड्याब्' (१।४।४५) सिलोपः । 'पदस्य' (२।१।८९) तलोपः ।।
एकेनापि सुपुत्रेण, सिंही स्वपिति निर्भरम् ।
सहैव दशभिः पुत्रैर्भार वहति गर्दभी ।।१।। [दशभिः] दशन् । तृतीया भिस् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः । [पुत्रैः] पुत्र । तृतीया भिस् । 'भिस ऐस्' (१।४।२) ऐस् । ऐदौत् सन्ध्यक्षरैः (१।२।१२) ऐ । [वहति] ‘वहीं प्रापणे' (९९६) वह् । वर्त० तिव् । ‘कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । [गर्दभी] गर्दभी । प्रथमा सि । 'दीर्घड्याब्' (१।४।४५) सिलोपः ।
[चैत्रमैत्राभ्यां सह कृतम्] सह 'डुकंग करणे' (८८८) कृ । सह क्रियते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त छ।।
ॐ उणादौ - धातुपारायणे च 'छदण् संवरणे । P. सह लक्षणोऽर्थो यस्याऽसौ सहार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org